This page has been fully proofread once and needs a second look.

द्वितीयाश्वासः ।
 
स्तस्मिन्नुपस्करणपरिरक्षणप्रयत्नश्च ध्वन्यते । प्रिय इति प्रकृष्टसंभो-

गस्थानतया वल्लभ इति हेतुना तत्प्रियत्वेन मम तस्मिन् सविशेषः

पक्षपात इति भावः । सखे इति, मत्प्रियकारिणा त्वया प्रथमतः

सोऽवश्यं प्रत्यवेक्षणीय इति प्रार्थना व्यज्यते । कातरेण अतिस्नेहा-

विष्टत्वात्तत्तदनिष्टमशनिपातचण्डवातादिकमुत्प्रेक्ष्य सभयेनेत्यर्थः । उ-

पान्तस्फुरिततटितं प्रान्ते प्रकाशमान विद्युल्लतम् । तटितः कदली-

सादृश्यात्, तव चेन्द्रनीलशिखरसाम्यात्, तमेव स्मरामि तादृशं

क्रीडाशैलमेव भावयामि, न पुनरन्यत्र क्वचिन्मनो धावतीत्यर्थः

ततश्च पुनर्गृहगमने तमक्षतं तथाविधमेव तया सह अपि नाम पश्ये-

यम् १ इत्यौत्सुक्यं ध्वन्यते । स्मरणं चात्रालंकारः ॥ १० ॥
 

 
रक्ताशोकश्लकिसलयः केसरश्चात्र कान्तः

प्रत्यासन्नौ कुरवकतृवृतेर्माधवीमण्डपस्य ।

एकः सख्यास्तव सह मया वामपादाभिलाषी

काङ्क्षत्यन्यो वदनमदिरां दोहलच्छद्मनास्याः ॥
 

 
अथ पुनरतिललितं लक्षणान्तरमाह -- रक्ताशोक इत्यादि ।

विद्रुमारुणकिसलयकुसुमोऽशोकतरुविशेषो रक्ताशोकः । चलकिस-

लय इति, मृदुपवनतरलललिततरुणपल्लवत्वेन नयनहारितातिशयः,
प्रे

प्रि
यतमाकर्णपूराद्युपभोगयोग्यत्वं च ध्वन्यते । केसरः बकुलतकःरुः । अत्र

गृ
हे । अथवा क्रीडाशैले । कान्तः हृदयंगमः, बहुलपरिमलकुसुम-

पुञ्ज
कञ्चुकितत्वात्, पुष्पवृक्षाणां तन्मुखेनैव कान्त्युपपत्तेः । प्रत्यास-