This page has not been fully proofread.

११४
 
मेघसंदेशे
 
त्वादिति हेतुः प्रतीयमानो ग्राह्यः । अत्र विशेषोक्तिरलंकारः । कार
णसामध्ये कार्यानुत्पादप्रतिपादनात् ॥ ९ ॥
तस्यास्तीरे विहितशिखरः पेशलैरिन्द्रनीलैः
क्रीडाशैलः कनककदलीवेष्टन प्रेक्षणीयः ।
महिन्याः प्रिय इति सखे चेतसा कातरेण
प्रेक्ष्योपान्तस्फुरिततटितं त्वां तमेव स्मरामि ॥
 
अथ पुनर्लक्षणान्तरमाह - तखा इति । तस्याः वाप्याः । तीरे
तरलतरङ्गसंघातसंगीतलीलागुरोः कनककमलपरिमलमिलनदुर्ललि-
तस्य रतिवेदनोदिनस्तदीयवायोरुपसेवनाय, मधुरकूजितोत्तेजितमद-
नानां मधुमदचपलानां हंससारसकादम्बकोकलोलम्बप्रभृतीनां विह-
गानां विहारविलोकनविनोदनाय च, तत्तटनिकटे निवेशित इत्यर्थः।
विहितशिखरः विश्वकर्मनिर्मितशृङ्गः । पेशलैः निर्दोषतया गुणव-
तया च रमणीयैः । 'चारौ दक्षे च पेशल: ' इत्यमरः । इन्द्रनीलैः
इन्द्रनीलाख्यैः शिलाविशेषैः । बहुवचनेन शिखरबाहुल्यम्, निर्माण-
वैविध्यं च प्रतीयते । विहितशिखर इत्यनेन कटककन्दरादीनामपि
रत्नान्तरनिर्मितत्वं प्रकाश्यते; अन्यथा विहित इत्येतावदेव वक्तव्यं
स्यात् । कनककदलीवेष्टनप्रेक्षणीयः हेमाम्भोजबत् कनकमयत्वेनोत्प-
नानां कदलीनां परिवेषेण दर्शनीयः । तटादीनामुन्नतनिरन्तरेण कपि-
लत्विषा कदलीवनेन परितस्तिरोहितत्वादुपरि गतानां नीलरुचां
शिखराणामेव दृश्यतया तटित्वद्दर्शनेन तत्स्मरणोक्तिः । मद्नेहिन्याः
मङ्गृहस्वामिन्याः । अनेन तद्रव्यानुरोधेन तन्निर्माणम्, प्रतिदिनं तस्या-