This page has been fully proofread once and needs a second look.

११४
 
मेघसंदेशे
 
त्वादिति हेतुः प्रतीयमानो ग्राह्यः । अत्र विशेषोक्तिरलंकारः । कार
-
णसामध्ग्र्ये कार्यानुत्पादप्रतिपादनात् ॥ ९ ॥

 
तस्यास्तीरे विहितशिखरः पेशलैरिन्द्रनीलैः

क्रीडाशैलः कनककदलीवेष्टन प्रेक्षणीयः ।

महिन्याः प्रिय इति सखे चेतसा कातरेण

प्रेक्ष्योपान्तस्फुरिततटितं त्वां तमेव स्मरामि ॥
 

 
अथ पुनर्लक्षणान्तरमाह - तखा-- तस्या इति । तस्याः वाप्याः । तीरे

तरलतरङ्गसंघातसंगीतलीलागुरोः कनककमलपरिमलमिलनदुर्ललि-

तस्य रतिवेखेदनोदिनस्तदीयवायोरुपसेवनाय, मधुरकूजितोत्तेजितमद-

नानां मधुमदचपलानां हंससारसकादम्बकोकलोलम्बप्रभृतीनां विह-

गानां विहारविलोकनविनोदनाय च, तत्तटनिकटे निवेशित इत्यर्थः।

विहितशिखरः विश्वकर्मनिर्मितशृङ्गः । पेशलैः निर्दोषतया गुणव-

त्
तया च रमणीयैः । 'चारौ दक्षे च पेशल: ' इत्यमरः । इन्द्रनीलैः

इन्द्रनीलाख्यैः शिलाविशेषैः । बहुवचनेन शिखरबाहुल्यम्, निर्माण-

वैविध्यं च प्रतीयते । विहितशिखर इत्यनेन कटककन्दरादीनामपि

रत्नान्तरनिर्मितत्वं प्रकाश्यते; अन्यथा विहित इत्येतावदेव वक्तव्यं

स्यात् । कनककदलीवेष्टनप्रेक्षणीयः हेमाम्भोजत् कनकमयत्वेनोत्प-

न्
नानां कदलीनां परिवेषेण दर्शनीयः । तटादीनामुन्नतनिरन्तरेण कपि-

लत्विषा कदलीवनेन परितस्तिरोहितत्वादुपरि गतानां नीलरुचां

शिखराणामेव दृश्यतया तटित्वद्दर्शनेन तत्स्मरणोक्तिः । मद्नेगेहिन्याः
मङ्

मद्
गृहस्वामिन्याः । अनेन तद्रव्यानुरोधेन तन्निर्माणम्, प्रतिदिनं तस्या-