This page has not been fully proofread.

द्वितीयाश्वासः ।
 
१११
 
सद्भावेन पूर्वचापादीनां कैमर्थक्थेनाक्षेपात् । एकदेशविवर्तिरूपकं च
तस्याङ्गम्। अस्मिन्प्रकरणे 'विद्युत्वन्तम्' इत्यादिभिः सप्तभिः श्लोकैः
क्रमात् निरुपमसंभोगसमुचितस्थानसंपत्तिः, तदनुकूलकालसौन्दर्यम्,
तदुद्दीपनतल्लजस्थलद्रव्यसैबोल्लासः, लोकोत्तररतिरसैकशरणत्वम्, न-
ष्टरागप्रत्यायनोपयुक्तविचित्र चित्रादि मनोहरता, रतिश्रमशमनोपायचा-
तुर्यम्, तत्रत्ययोषारूपवेषविलास नामसमानत्वं च रतिरसजीवितभूतं
प्रतिपादितानि वेदितव्यानि ॥ ७ ॥
 
तत्रागारं धनपतिगृहानुत्तरेणास्मदीयं
 
दूराल्लक्ष्यं त्वदमरधनुश्वारुणा तोरणेन ।
यस्योद्याने कृतकतनयः कान्तया वर्धितो मे
हस्तप्राप्य स्तवकनमितो बालमन्दारवृक्षः ॥ ८ ॥
 
अथ पुरे वर्णिते तदन्त:पातितया प्रतिपादितसाधारणगुण-
विशिष्टं स्वभवनविशेषं विशेषलक्षणैर्विविच्योपदिशति — तत्रेति ।
तत्र वर्णितायामलकायाम् । अगारं गृहम् । धनपतिगृहान्,
उत्तरेण यक्षराजकुलस्योत्तरभागे संनिकृष्टे । 'एनचन्यनरस्याम् '
इत्येनप्प्रत्ययः । 'एनपा द्वितीया' इति द्वितीया । गृहानिति, 'गृहाः
पुंसि च भूम्न्यैव' इत्यभिधानात् पुंलिङ्गत्वे नियतबहुवचनत्वम् । अनेन
राजवाल्लभ्यमधिकारगौरवं च द्योत्यते । अस्मदीयं न तु मदीयम्,
पितृपितामद्दपरंपरापतितमित्यर्थः । दूरात् लक्ष्यं दूरत एव दृश्यम्;
उत्तुङ्गत्वात् । त्वदमरधनुश्वारुणा त्वदीयेन्द्रचापवत् सुन्दरेण,