This page has been fully proofread once and needs a second look.

द्वितीयाश्वासः ।
 
१११
 
सद्भावेन पूर्वचापादीनां कैमर्थक्थेनाक्षेपात् । एकदेशविवर्तिरूपकं च

तस्याङ्गम्। अस्मिन्प्रकरणे 'विद्युत्वन्तम्' इत्यादिभिः सप्तभिः श्लोकैः

क्रमात् निरुपमसंभोगसमुचितस्थानसंपत्तिः, तदनुकूलकालसौन्दर्यम्,

तदुद्दीपनतल्लजस्थलद्रव्यसैबोसेवोल्लासः, लोकोत्तररतिरसैकशरणत्वम्, न-

ष्टरागप्रत्यायनोपयुक्तविचित्र चित्रादि मनोहरता, रतिश्रमशमनोपायचा-

तुर्यम्, तत्रत्ययोषारूपवेषविलासानामसमानत्वं च रतिरसजीवितभूतं

प्रतिपादितानि वेदितव्यानि ॥ ७ ॥
 

 
तत्रागारं धनपतिगृहानुत्तरेणास्मदीयं
 

दूराल्लक्ष्यं त्वदमरधनुश्वाचारुणा तोरणेन ।

यस्योद्याने कृतकतनयः कान्तया वर्धितो मे

हस्तप्राप्य स्तवकनमितो बालमन्दारवृक्षः ॥ ८ ॥
 

 
अथ पुरे वर्णिते तदन्त:पातितया प्रतिपादितसाधारणगुण-

विशिष्टं स्वभवनविशेषं विशेषलक्षणैर्विविच्योपदिशति-- तत्रेति ।

तत्र वर्णितायामलकायाम् । अगारं गृहम् । धनपतिगृहान्,

उत्तरेण यक्षराजकुलस्योत्तरभागे संनिकृष्टे । 'एनचन्यनरस्याम् बन्यनरस्याम्'

इत्येनप्प्रत्ययः । 'एनपा द्वितीया' इति द्वितीया । गृहानिति, 'गृहाः

पुंसि च भूम्न्यैयेव' इत्यभिधानात् पुंलिङ्गत्वे नियतबहुवचनत्वम् । अनेन

राजवाल्लभ्यमधिकारगौरवं च द्योत्यते । अस्मदीयं न तु मदीयम्,

पितृपितामद्दपरंपरापतितमित्यर्थः । दूरात् लक्ष्यं दूरत एव दृश्यम्;

उत्तुङ्गत्वात् । त्वदमरधनुश्वाचारुणा त्वदीयेन्द्रचापवत् सुन्दरेण,