This page has not been fully proofread.

मेघसंदेशे
 
द्यत्यते । प्रायः चाहुल्येन, निश्चितमित्यर्थः । चापं न वहति न तु
न प्रवर्तत इति, आडम्बरमात्रस्यैव प्रभुविद्वेषजनकत्वम् ; न पुनस्ते-
नैव स्थापितस्य स्वकृत्यानुष्ठानस्येति भावः । चापवहनस्य शरसंधा-
नार्थत्वात् तन्निषेधेन कुमुमशरप्रयोग एव नौद्युङ्क इत्यर्थो लभ्यते ।
भयात् चटुलज्वालाजालचूडालफालनयनपावकरसाभिज्ञतया पुन-
रपि तत्तादृशव्यसनापातसंत्रासादित्यर्थः । मन्मथ इति, मादृशे-
प्वेव तस्य चापबहने निर्भयत्वमिति सोत्प्रासवचनम् । षट्प-
दज्यं मधुकरमालामौबकम् । अनेन झंकारमुखरभृङ्गावलीकोलाहल
शङ्काकुलितत्वादिति द्योत्यते । षट्पदज्यं चापं न वहतीत्यनेन तथा-
विधस्य फलाव्यभिचारिणश्चापान्तरस्य, तत्क्षेप्याणां शरान्तराणां च
सद्भावः, तत्प्रयोगे निभृततया निःशङ्कत्वं च प्रकाश्यते; तदेव
साधनान्तरमाइ – सभ्रूभङ्गप्रहितनयनैः श्रूमेदसहितं प्रयुक्तनैत्रैः ।
कामिलक्षेषु रसिकजनरूपेषु शरव्येषु । अमोघैः अव्यभिचारिभिः;
मनोविकाररूपस्य कार्यस्य करणात् । तस्य मन्मथस्य, चापस्य वा ।
आरम्भः प्रवृत्ति: । हेतुहेतुमतोरभेदोपचारात् प्रवृत्त्युद्देश्यं प्रयोजन-
मात्र आरम्भ इत्युच्यते; निजसाम्राज्य निर्वहणमित्यर्थः । चतुरवनिता-
विभ्रनैः विदग्धतरुणीविलासैः । अत्र कामिनां लक्षत्वेन रूपणात्
भ्रूभङ्गानां धनुर्लतात्वेन, नयनानां भल्लत्वेन, विभ्रमाणामायुधान्तरत्वेन
च रूपणं लभ्यते । एवेति । पूर्वचापस्या साध्येषु तपस्विजनेष्वपि तेषां
साधकत्वात्, एतदसाध्ये तु विषये तस्य दूरतः कुण्ठितत्वात् साध-
नान्तरस्यापेचैव नास्तीत्यर्थः । सिद्धः प्राप्तः । भूतनिर्देशः प्रयोगान-
न्तरमेव फलझाटित्यं प्रकाशयति । अव प्रतीपमलंकारः, भ्रूभङ्गादि-