This page has been fully proofread once and needs a second look.

मेघसंदेशे
 
द्योत्यते । प्रायः चाबाहुल्येन, निश्चितमित्यर्थः । चापं न वहति न तु

न प्रवर्तत इति, आडम्बरमात्रस्यैव प्रभुविद्वेषजनकत्वम् ; न पुनस्ते-

नैव स्थापितस्य स्वकृत्यानुष्ठानस्येति भावः । चापवहनस्य शरसंधा-

नार्थत्वात् तन्निषेधेन कुमुसुमशरप्रयोग एव नौनोद्युङ्क्त इत्यर्थो लभ्यते ।

भयात् चटुलज्वालाजालचूडालफालनयनपावकरसाभिज्ञतया पुन-

रपि तत्तादृशव्यसनापातसंत्रासादित्यर्थः । मन्मथ इति, मादृशे-
प्

ष्
वेव तस्य चापहने निर्भयत्वमिति सोत्प्रासवचनम् । षट्प-

दज्यं मधुकरमालामौर्वीकम् । अनेन झंकारमुखरभृङ्गावलीकोलाहल
-
शङ्काकुलितत्वादिति द्योत्यते । षट्पदज्यं चापं न वहतीत्यनेन तथा-

विधस्य फलाव्यभिचारिणश्चापान्तरस्य, तत्क्षेप्याणां शरान्तराणां च

सद्भावः, तत्प्रयोगे निभृततया निःशङ्कत्वं च प्रकाश्यते; तदेव

साधनान्तरमाइ –ह-- सभ्रूभङ्गप्रहितनयनैः श्भ्रूमेभेदसहितं प्रयुक्तनैत्रैः ।

कामिलक्षेषु रसिकजनरूपेषु शरव्येषु । अमोघैः अव्यभिचारिभिः ;

मनोविकाररूपस्य कार्यस्य करणात् । तस्य मन्मथस्य, चापस्य वा ।

आरम्भः प्रवृत्ति: । हेतुहेतुमतोरभेदोपचारात् प्रवृत्त्युद्देश्यं प्रयोजन-

मात्र आरम्भ इत्युच्यते; निजसाम्राज्य निर्वहणमित्यर्थः । चतुरवनिता-

विभ्रनैःमैः विदग्धतरुणीविलासैः । अत्र कामिनां लक्षत्वेन रूपणात्

भ्रूभङ्गानां धनुर्लतात्वेन, नयनानां भल्लत्वेन, विभ्रमाणामायुधान्तरत्वेन

च रूपणं लभ्यते । एवेति । पूर्वचापस्या साध्येषु तपस्विजनेष्वपि तेषां

साधकत्वात्, एतदसाध्ये तु विषये तस्य दूरतः कुण्ठितत्वात् साध-

नान्तरस्यापेचैक्षैव नास्तीत्यर्थः । सिद्धः प्राप्तः । भूतनिर्देशः प्रयोगान-

न्तरमेव फलझाटित्यं प्रकाशयति । अत्र प्रतीपमलंकारः, भ्रूभङ्गादि-