This page has been fully proofread once and needs a second look.

द्वितीयाश्वासः ।
 
i
 
6
 
मत्वा देवं धनपतिसवंखं यत्र साक्षाद्वसन्तं

प्रायश्चापं न वहति भयान्मन्मथः षट्पदज्यम् ।

सभ्रूभङ्गप्रहितनयनैः कामिलक्षेष्वमोयै-
घै-
स्तस्यारम्भचतुरवनिताविभ्रमैरेव सिद्धः ॥ ७ ॥

 
अथ तत्र साक्षाद्वसतो हरस्याज़ज्ञया सर्वजनदुर्वारो मारोऽपि सवि-

नय एव वर्तते; का पुनरन्येषामकृत्यस्य वार्तापीति प्रतिपादयन्,

भङ्गया तदीयवनिताविभ्रमाणां दुर्वारवीर्यत्वमाह ---- मत्वेति । मत्वा

न तु दृष्ट्वा, तत्तादृशकोपाटोपदुःसहतया निरूप्येत्यर्थः । देवं मदन-

शरव्यापारमन्तरेणापि स्वाव्यतिरिक्ततया देव्या सह क्रीडापरम्;

श्रद्धा कामं तथा दर्पम्' इत्युपक्रम्य 'तुसुखं सिद्धिर्यशः कीर्तिरित्येते

धर्मसुसूनवः' इति श्रीविष्णुपुराणोक्तेः, धर्मस्य दारेषु श्रद्धायां दाक्षा-

यण्यामुत्पन्नस्य कामस्य सर्गात्पूर्वमेव जगत्पित्रोः शिवयोरनादिसिद्ध-

योर्निरुपाधिकसंबन्धसिद्धेः । धनपतिसखं निधिपतेर्वैश्रवणस्य सखा-

यम्; तदनुग्रहार्थंथे तत्र वास इत्यर्थः । अनेन बलवदरिनिवहभयच-

कितचेतसां धनवतां बलीयांसं सुहृदमनाश्रित्य कुतः सुखासिकेति

व्यज्यते । साक्षात् भक्तजनध्यानपूजनार्थमवलम्बितेन पञ्चकृत्योपयु-

क्तपञ्चब्रह्मात्मकेन वपुषा, न तु प्रतिमारूपेणेत्यर्थः, 'साधकस्य तु

लक्षार्थं तस्य रूपभिमिदं स्मृतम् । तद्वपुः पञ्चभिर्मन्त्रैः पञ्चकृत्योपयो-

गिभिः ॥' इति 'ईशतत्पुरुषाघोरखावामाद्यैर्मस्तकादिकम्' इति

चागमात् । वसन्तं न तु चरन्तम्, गृहाभिमानेन सदा निषीदन्तमि-

त्यर्थः । अनेन तादृशे देशे किंचिदप्यपराध्यतः प्रचण्डदण्डापत्ति-