This page has been fully proofread once and needs a second look.


कालिदासेन चास्मिन् लघुनि मेघसंदेशकाव्ये शब्दार्थाभ्यां
माधुर्यम्, वर्णननैपुणम्, व्यङ्ग्यवैशिष्ट्यम्, रसपरिपोषणम्, चम-
त्कारातिशयं च सम्यगभिदर्शितमालोडयतां भावुकमणीनां की-
दृशी वा चित्तवृत्तिरिति ननु स्वानुभवैकवेद्यमेतत् । अत एवात्र
असाधारणं चमत्कारातिशयमनुभूय स्वकीयान्यादृशबहुमानप्रदर्शनाय
पार्श्वाभ्युदयकाव्यकर्ता मेघसंदेशपद्यादेकैकं पादमुद्धृत्य एकैकस्मिन्पद्ये
घटयित्वा पद्यानि विरचय्य क्रमेण समग्रमपि मेघसंदेशकाव्यमात्म-
काव्ये अन्तर्भाव्य स्वात्मनः कृतार्थतामापादयामास । एवं नेमिदूत-
कर्तापि मेघसंदेशपद्यानां चतुर्थान्पादान्स्वपद्येषु चतुर्थपादत्वेन संयोज्य
काव्यमारचयन्, स्वकाव्यस्य अभङ्गुरं मङ्गलमसाधारणं परिष्करणं
च सर्वात्मना समाकलयति स्म । तथा भवभूतिरप्येनां रीतिमाश्रित्य
'कञ्चित्सौम्य-- 'इति, 'दैवात्पश्येः--'इति च पद्याभ्यां सम-
ग्रमपि मेघसंदेशकाव्यार्थमायोज्य मन्यते स्म महनीयतां मालती-
माधवस्य ।
 
 
कर्मठानां कर्मठः, ज्ञानिनां ज्ञानी, भक्तानां भक्तः, प्रपन्नानां
प्रपन्नः, वादिनां वादी, शान्तानां शान्तः-- साक्षादेव सीता-
रामव्यतिकरसखं हंससंदेशाभिधं मेघसंदेशानुकारि काव्यमात्मना
रचयामास; एषा किल अस्य श्रीमतो निगमान्तमहादेशि-
कस्य प्रकृतिः, यदुत स्वानुगमनेन कविसार्वभौमे कालिदासे
स्वकीयबहुमानप्रदर्शनप्रवणता नाम । अत एव रघुवंशसमकक्ष्यतया
यादवाभ्युदयमारिरचयिषुरयं श्रीमान्वेदान्तदेशिकः, रघुवंश इव स्व-
कीयेऽपि काव्ये प्रथमं सर्गमानुष्टुभैः पद्यैरारभमाणः, 'वागर्थाविव—’