This page has been fully proofread once and needs a second look.

( ४ )
 

कालिदासेन चास्मिन् लघुनि मेघसंदेशकाव्ये शब्दार्थाभ्यां

माधुर्यम्, वर्णननैपुणम्, व्यङ्ग्यवैशिष्ट्यम्, रसपरिपोषणम्, चम-

त्कारातिशयं च सम्यगभिदर्शितमालोडयतां भावुकमणीनां की-

दृशी वा चित्तवृत्तिरिति ननु स्वानुभवैकवेद्यमेतत् । अत एवात्र

असाधारणं चमत्कारातिशयमनुभूय स्वकीयान्यादृशबहुमानप्रदर्शनाय

पार्श्वाभ्युदयकाव्यकर्ता मेघसंदेशपद्यादेकैकं पादमुद्धृत्य एकैकस्मिन्पद्ये

घटयित्वा पद्यानि विरचय्य क्रमेण समग्रमपि मेघसंदेशकाव्यमात्म-

काव्ये अन्तर्भाव्य स्वात्मनः कृतार्थतामापादयामास । एवं नेमिदूत-

कर्तापि मेघसंदेशपद्यानां चतुर्थान्पादान्स्वपद्येषु चतुर्थपादत्वेन संयोज्य

काव्यमारचयन्, स्वकाव्यस्य अभङ्गुरं मङ्गलमसाधारणं परिष्करणं

च सर्वात्मना समाकलयति स्म । तथा भवभूतिरप्येनां रीतिमाश्रित्य

'कञ्चित्सौम्य-- ' इति, 'दैवात्पश्येः--' इति च पद्याभ्यां सम-

ग्रमपि मेघसंदेशकाव्यार्थमायोज्य मन्यते स्म महनीयतां मालती.
 
माघ
-
माध
वस्य ।
 

 
 
कर्मठानां कर्मठः, शाज्ञानिनां शाज्ञानी, भक्तानां भक्तः, प्रपन्नानां

प्रपन्नः, वादिनां वादी, शान्तानां शान्तः-- साक्षादेव सीता-

रामव्यतिकरसवं इंखं हंससंदेशाभिषंधं मेघसंदेशानुकारि काव्यमात्मना

रचयामास; एषा किल अस्य
श्रीमतो निगमान्तमहादेशि-

कस्य प्रकृतिः, यदुत स्वानुगमनेन कविसार्वभौमे कालिदासे

स्वकीयबहुमानप्रदर्शनप्रवणता नाम । अत एव रघुवंशसमकक्ष्यतया

यादवाभ्युदयमारिरचयिषुरयं श्रीमान्वेदान्तदेशिकः, रघुवंश इव स्व-

कीयेऽपि काव्ये प्रथमं सर्गमानुष्टुभैः पद्यैरारभमाणः, 'बावागर्थाविव
 
—’