2023-02-17 12:54:42 by ambuda-bot
This page has not been fully proofread.
१०८
मेघसंदेशे
यमावेदयति – यत्न स्त्रीणामित्यादि । प्रियतमभुजोच्छ्रासितालि-
ङ्गितानां प्रियतमानां भुजैः संजातोच्छ्वासं यथा तथा गाढमुपगूढा-
नाम्। प्रियतमेति, तदङ्गसङ्गत्यामृतायमानत्वेन सुदृढमप्यालिङ्गनं
किसलयमृदुलाभिरपि सह्यत इति द्योत्यते । भुजेति, प्रियतमानां
दयया मृदूपक्रमेऽपि तद्भुजानां प्रियागात्रस्पर्शमुखग्रहप्रस्ततया तदङ्गं
प्रविविक्षतामिव अभेदमभिलषतामिव निर्भरपरिरम्भारम्भः सूच्यते ।
अङ्गग्लानिम् अङ्गानां व्यापारासद्दमवसादम् । सुरतजनितां सुरता-
याससंभृताम् । तन्तुजालावलम्बाः वितानाधोभागे सूत्रसमूहग्रथिताः,
गुलिकाकारा: मालात्मनावलम्बमानाः । तथात्वं च जललवस्य-
न्दित्वोक्तेः सिध्यति; अन्यथा जलधारास्यन्दसंभवात् । त्वत्संरोधा-
पगमविशदै: मेघाच्छादनविरहेण निर्मलैः । अथवा 'बाह्योद्यान-
स्थितद्दशिरश्चन्द्रिकाधौतद्दर्म्येः' इत्युक्तत्वात् नित्यं मेघाद्यनुपद्दतैई-
रशिरश्चन्द्रस्य किरणैरित्यर्थः । चन्द्रपादैरिति, जलबिन्दुस्यन्दनहेतुः ।
हेतौ तृतीया, सद्दार्थे वा । निशीथ इति, अत्यायतरतसंभृतस्य
श्रमस्य प्रावल्यं ध्वन्यते; यतः स्वत एव शीतलतरेण मध्यरात्र-
समयेनाप्यनपनेया ग्लानिश्चन्द्रकान्त जलबिन्दुसंतानैरवलुप्यत इति
व्याडम्पन्ति विशेषेण समन्ताच नाशयन्ति । स्फुटजललवस्थ-
न्दिनः शैत्यादिगुणयोगात् व्यक्ततरवारिविन्दुखाविणः । चन्द्रका-
न्ताः चन्द्रदर्शने द्रवीभावशीला: शिलाविशेषाः । अत्र करतलस्पर्श-
झेशितानां मालतीमालिकानां जलशीकराय सेकेनाश्वासयितुर्मालिकस्य
समाधिरनुसंधेयः । उदात्तमलंकारः ॥ ६ ॥