This page has been fully proofread once and needs a second look.

१०८
 
मेघसंदेशे
 
यमावेदयति – यत्न-- यत्र स्त्रीणामित्यादि । प्रियतमभुजोच्छ्रावासितालि-

ङ्गितानां प्रियतमानां भुजैः संजातोच्छ्वासं यथा तथा गाढमुपगूढा-

नाम्। प्रियतमेति, तदङ्गसङ्गत्स्यामृतायमानत्वेन सुदृढमप्यालिङ्गनं

किसलयमृदुलाभिरपि सह्यत इति द्योत्यते । भुजेति, प्रियतमानां

दयया मृदूपक्रमेऽपि तद्भुजानां प्रियागात्रस्पर्शमुसुखग्रहप्ग्रस्ततया तदङ्गं

प्रविविक्षतामिव अभेदमभिलषतामिव निर्भरपरिरम्भारम्भः सूच्यते ।

अङ्गग्लानिम् अङ्गानां व्यापारासद्दमवसादम् । सुरतजनितां सुरता-

याससंभृताम् । तन्तुजालावलम्बाः वितानाधोभागे सूत्रसमूहग्रथिताः,

गुलिकाकारा: मालात्मनावलम्बमानाः । तथात्वं च जललवस्य-

न्दित्वोक्तेः सिध्यति; अन्यथा जलधारास्यन्दसंभवात् । त्वत्संरोधा-

पगमविशदै: मेघाच्छादनविरहेण निर्मलैः । अथवा 'बाह्योद्यान-

स्थितद्दहरशिरश्चन्द्रिकाधौतद्दर्म्येःहर्म्यैः' इत्युक्तत्वात् नित्यं मेघाद्यनुपद्दपहतैई-
र्ह-
रशिरश्चन्द्रस्य किरणैरित्यर्थः । चन्द्रपादैरिति, जलबिन्दुस्यन्दनहेतुः ।

हेतौ तृतीया, सद्दाहार्थे वा । निशीथ इति, अत्यायतरतसंभृतस्य

श्रमस्य प्राल्यं ध्वन्यते; यतः स्वत एव शीतलतरेण मध्यरात्र-

समयेनाप्यनपनेया ग्लानिश्चन्द्रकान्त जलबिन्दुसंतानैरवलुप्यत इति

व्यालुम्पन्ति विशेषेण समन्ताच्च नाशयन्ति । स्फुटजललवस्थ-
य-
न्दिनः शैत्यादिगुणयोगात् व्यक्ततरवारिविबिन्दुखास्राविणः । चन्द्रका-

न्ताः चन्द्रदर्शने द्रवीभावशीला: शिलाविशेषाः । अत्र करतलस्पर्श-
झे

क्ले
शितानां मालतीमालिकानां जलशीकरासेकेनाश्वासयितुर्मालिकस्य

समाधिरनुसंधेयः । उदात्तमलंकारः ॥ ६ ॥