This page has not been fully proofread.

द्वितीयाश्वासः ।
 
१०७
 
ख्यानां चित्रगतपदार्थानाम् । सलिलकणिकादोषं जलकणा-
करणजनितं वर्णैज्ज्वल्यप्रमोषभूतमपराधम्। कणिकेति अमूलक्षयकर-
त्वाद्दोषस्याल्पत्वम् । सद्यः तदवगमनानन्तरमेवेति "न कश्चिन्नापन-
यते पुमानन्यत्र भार्गवात् । शेषसंप्रतिपत्तिस्तु बुद्धिमत्स्ववतिष्ठते '
इति वचनात् प्रत्युत्पन्न प्रतिभत्वं तेषां चमत्करोति । शङ्कास्पृष्टा इव
तत्रत्यजनादनिष्टापत्तिचिन्ताक्रान्ता इव । जलमुचः वर्षणपरा इति
विशेषणम्, तदानीमेव दोषोत्पादनोपपत्तेः । त्वादृशाः भवत्सदृशाः
सजातीया मेघा इत्यर्थः । यन्त्रजालैः विश्वकर्मविज्ञाननिर्मिताद्भुतगबा-
क्षविबरैः । धूपोद्गारानुकृतिनिपुणाः केशाधिंवासनधूपनिर्गमानुकरण-
विदग्धाः, तत्सबर्णत्वाद्रूपजालत्वेनात्मानमपोतुं पटव इत्यर्थः ।
'साधुनिपुणाभ्यामचीयां सप्तम्यप्रतेः' इति सप्तम्यां 'सप्तमी शौण्डैः'
इति समासः । जर्झराः विशीर्णशरीराः, 'मूर्ध्नि प्रान्णा जर्झरा निर्झ-
रौघाः' इतिवत् । एष धूपनिर्गमस्वभावारोपो वैदग्ध्योपपादकः ।
निष्पतन्ति कैश्चिदप्यपरिज्ञातं निःसरन्तीति वैदग्ध्यफलोक्तिः । अत्र ·
सापह्नवोत्प्रेक्षालंकारः ॥ ५॥
 
6
 
यत्र स्त्रीणां प्रियतमभुजोच्छ्छ्रासितालिङ्गिताना-
मङ्गग्लानिं सुरतजनितां तन्तुजालावलम्बाः ।
वत्संरोधापगमविशदैश्चन्द्रपादैर्निशीथे
 
व्यालुम्पन्ति स्फुटजललवस्यन्दिनश्चन्द्रकान्ताः ॥
अथ तत्त्रत्यानां यूनां संभोगश्रमस्यानायासेन शमनोपायमतिरमणी-