This page has not been fully proofread.

मेघसंदेशे
 
क्षोदीयसां
 
बदनिर्वाप्यज्वालात्वाद्वा । अचिंटुङ्गत्वं चाव हेतुः,
तथात्वेऽपि तरुणतरणिसधर्मणां मणिविशेषाणां दुर्निर्वापत्वात् । फलं
च तदुषश्चमे तिमिरतिरस्करणीतिरोधानम्। चूर्णमुष्टिः मुखवासाद्यर्थानां
घनसारादिसुरभिद्रब्याणां करकमलमुष्टिप्रमाणगृहीतं चूर्णम् । 'चूर्णा-
नि बाखयोगाः स्युः' इति वैजयन्ती । अनेन प्रियतमहृदयरसायनं
तासां मौग्ध्यातिशयो ध्वन्यते । अत्र च समग्रभोगसाधनप्रधाने विवि-
ते वेश्मनि चौमाक्षेपस्पष्टदृष्टदयिताघनजघनाद्यपघनानां प्रियजनां
कुपितरतिदयितशरशकलितचेतसां निर्यन्त्रणं निधुवनबिलसितं कथं
कथ्यतामिति द्योत्यते । अत्र विशेषोक्तिरलंकारः ॥ ४ ॥
 
१०६
 
नेत्रा नीताः सततगतिना यद्विमानाग्रभूमे-
म सलिलकणिकादो रालेख्यानां नवजलकर्णेदोषमुत्पाद्य सद्यः ।
शङ्कास्पृष्टा इव जलमुचस्त्वादृशा यन्त्रजालै-
र्धूपोद्गारानुकृतिनिपुणा जर्जरा. निष्पतन्ति ॥ ५ ॥
 
अब तत्र कामिजनस्य नष्टरागप्रत्यानयनायुपयुक्तचित्रविषयजल-
धराणां प्रमादापतितमपराधम्, वैदग्ध्यात्तदापन्निस्तरणं च प्रतिपाद-
यन्, प्रकृतस्य स्वजातिवैदग्ध्यचमत्कारेण प्ररोचनं करोति–नेत्रेति ।
नेत्रा तत्र तत्र स्वसंचारकेण । नीताः समीपं प्रापिताः । सततगतिना
वायुना, न तु स्वबुद्धिदोषेण ; धीमतामपि सचिवदोषेण विपदापत-
तीति भावः । यद्विमानाप्रभूमेः यस्या नगर्याः संबन्धिनां प्रासाद-
आले-
विशेषाषाम् अग्रभूमेः चन्द्रशालायाः, भित्तिसंश्रयिणाम्,