This page has been fully proofread once and needs a second look.

वदनिर्वाप्यज्वालात्वाद्वा । अर्चितुङ्गत्वं चात्र हेतुः, क्षोदीयसां
तथात्वेऽपि तरुणतरणिसधर्मणां मणिविशेषाणां दुर्निर्वापत्वात् । फलं
च तदुपशमे तिमिरतिरस्करणीतिरोधानम्। चूर्णमुष्टिः मुखवासाद्यर्थानां
घनसारादिसुरभिद्रव्याणां करकमलमुष्टिप्रमाणगृहीतं चूर्णम् । 'चूर्णा-
नि वासयोगाः स्युः' इति वैजयन्ती । अनेन प्रियतमहृदयरसायनं
तासां मौग्ध्यातिशयो ध्वन्यते । अत्र च समग्रभोगसाधनप्रधाने विवि-
क्ते वेश्मनि क्षौमाक्षेपस्पष्टदृष्टदयिताघनजघनाद्यपघनानां प्रियजनानां
कुपितरतिदयितशरशकलितचेतसां निर्यन्त्रणं निधुवनविलसितं कथं
कथ्यतामिति द्योत्यते । अत्र विशेषोक्तिरलंकारः ॥ ४ ॥
 
नेत्रा नीताः सततगतिना यद्विमानाग्रभूमे-
रालेख्यानां सलिलकणिकादोषमुत्पाद्य सद्यः ।
शङ्कास्पृष्टा इव जलमुचस्त्वादृशा यन्त्रजालै-
र्धूपोद्गारानुकृतिनिपुणा जर्जरा निष्पतन्ति ॥ ५ ॥
 
अथ तत्र कामिजनस्य नष्टरागप्रत्यानयनाद्युपयुक्तचित्रविषयजल-
धराणां प्रमादापतितमपराधम्, वैदग्ध्यात्तदापन्निस्तरणं च प्रतिपाद-
यन्, प्रकृतस्य स्वजातिवैदग्ध्यचमत्कारेण प्ररोचनं करोति-- नेत्रेति ।
नेत्रा तत्र तत्र स्वसंचारकेण । नीताः समीपं प्रापिताः । सततगतिना
वायुना, न तु स्वबुद्धिदोषेण ; धीमतामपि सचिवदोषेण विपदापत-
तीति भावः । यद्विमानाग्रभूमेः यस्या नगर्याः संबन्धिनां प्रासाद-
विशेषाणाम् अग्रभूमेः चन्द्रशालायाः, भित्तिसंश्रयिणाम्, आले-