2023-02-17 12:54:42 by ambuda-bot
This page has not been fully proofread.
मेघसंदेशे
;
दिवाद्यभाण्डमुखेषु। 'पुष्करं करिहस्ताग्रे वायभाण्डमुखे जल इति
वैजयन्ती । आइतेषु कुशलैस्ताडितेषु तथा रघुवंशे– 'नदद्भिः
स्निग्धगम्भीरं तूर्यैराइतपुष्करैः' इति । पुष्कराहतिर्नृत्तगीतयोरप्यु-
पलक्षणम् । 'पानासक्तं महात्मानं हिरण्यकशिपुं तदा । उपासांचक्रिरे
सर्वे सिद्धगन्धर्वपन्नगाः ॥ अवादयञ्जगुश्चान्ये जयशब्दानथापरे ।
दैत्यराजस्य पुरतश्चक्रुः सिद्धा मुदान्विताः' इति श्रीविष्णुपुराणे मधु-
पानात्सवाङ्गत्वेन संगीतस्य कथनात् । अत्रोदात्तमलंकारः ॥ ३ ॥
१०४
नीवीबन्धोच्छ्छ्रसनशिथिलं यत्र बिम्बाधराणां
क्षौमं रागादनिभृतकरेष्वाक्षिपत्सु प्रियेषु ।
अर्चिस्तुङ्गानभिमुखमपि प्राप्य रत्नप्रदीपा-
न्हीमूढानां भवति विफलप्रेरणा चूर्णमुष्टिः ॥ ४ ॥
-
अथ तत्रत्यानां यूनां परस्परानुरागसाचिव्यप्राज्यसंभोगसाम्राज्यमा-
इ-- नीवीति । 'नीविरामथनं नार्या जघनस्थस्य वाससः' इत्यमरः ।
नीबीबन्धस्य उच्छ्रसनं गलनम्; तच्च प्रियस्पर्शसुखपरायत्तचित्तता-
द्योतकम् ;
यथा रतिरहस्ये – 'प्रच्छन्नौ व्रजतः स्तनौ प्रकटतां श्रो-
णीतटं दृश्यते नीवी च स्खलति स्थितापि सुदृढं कामेङ्गितं योषि-
ताम् ।' इति । तेन शिथिलं नितम्बबिम्बेषु असक्तम् । बिम्बाधराणां
पुनः पुनः प्रियैर्गाढ़लीढतया स्फुटोपलब्धविम्बीफलसाम्यं दन्त-
बासो यासाम्। अनेन तादृशामधरमणीनामेव रागराज्य निर्वहणगर्व-
दुर्वारत्यादितराङ्गानां कः सादायकावकाश इति ध्वन्यते । क्षौमं