This page has been fully proofread once and needs a second look.

मेघसंदेशे
 
;
 
दिवाद्यभाण्डमुखेषु। 'पुष्करं करिहस्ताग्रे वाद्यभाण्डमुखे जले’ इति

वैजयन्ती । आतेषु कुशलैस्ताडितेषु; तथा रघुवंशे-- 'नदद्भिः

स्निग्धगम्भीरं तूर्यैरातपुष्करैः' इति । पुष्कराहतिर्नृत्तगीतयोरप्यु-

पलक्षणम् । 'पानासक्तं महात्मानं हिरण्यकशिपुं तदा । उपासांचक्रिरे

सर्वे सिद्धगन्धर्वपन्नगाः ॥ अवादयञ्जगुश्चान्ये जयशब्दानथापरे ।

दैत्यराजस्य पुरतश्चक्रुः सिद्धा मुदान्विताः' इति श्रीविष्णुपुराणे मधु-

पानानोत्सवाङ्गत्वेन संगीतस्य कथनात् । अत्रोदात्तमलंकारः ॥ ३ ॥
 
१०४
 

 
नीवीबन्धोच्छ्छ्रसनशिथिलं यत्र बिम्बाधराणां

क्षौमं रागादनिभृतकरेष्वाक्षिपत्सु प्रियेषु ।

अर्चिस्तुङ्गानभिमुखमपि प्राप्य रत्नप्रदीपा-
न्ही

न्ह्री
मूढानां भवति विफलप्रेरणा चूर्णमुष्टिः ॥ ४ ॥
 
-
 

 
अथ तत्रत्यानां यूनां परस्परानुरागसाचिव्यप्राज्यसंभोगसाम्राज्यमा-

इ-- नीवीति । 'नीविराग्रथनं नार्या जघनस्थस्य वाससः' इत्यमरः ।

नीबीवीबन्धस्य उच्छ्सनं गलनम्; तच्च प्रियस्पर्शसुखपरायत्तचित्तता-

द्योतकम् ;
यथा रतिरहस्ये-- 'प्रच्छन्नौ व्रजतः स्तनौ प्रकटतां श्रो-

णीतटं दृश्यते नीवी च स्खलति स्थितापि सुदृढं कामेङ्गितं योषि-

ताम् ।' इति । तेन शिथिलं नितम्बबिम्बेषु असक्तम् । बिम्बाधराणां

पुनः पुनः प्रियैर्गालीढतया स्फुटोपलब्धविबिम्बीफलसाम्यं दन्त-
बा

वा
सो यासाम्। अनेन तादृशामधरमणीनामेव रागराज्य निर्वहणगर्व-

दुर्वारत्यादितराङ्गानां कः सादाहायकावकाश इति ध्वन्यते । क्षौमं