This page has not been fully proofread.

द्वितीयाश्वासः ।
 
अथ तद्वासिनां विलासिनाम् अनुपमरसासेवनेन सफलोद्दामयौव-
नत्वमाइ – यस्यामिति । यक्षाः निधिपतित्वेन प्रसिद्धसमृद्धिकाः ।
सितमणिमयानि सितमणिः स्फटिकशिला, अथवा मुक्ता शिला, तन्नि-
मिंतानि । हर्म्यस्थलानि सौधशिखरकुट्टिमानि । ज्योतिश्छायाकुसुम-
खचितानि ज्योतिषां नक्षत्रमद्दताराणां प्रतिबिम्बरूपैः पुष्पोपहारैः
संमिश्राणि । अथवा छायाभिः कुसुमैश्च संकीर्णानि । अनेन हर्म्यव-
ङ्गाणां तारापथसंनिकृष्टत्वम्, मणिकुट्टिमानां प्रसादसंपञ्च ध्वन्यते ।
ज्योतिश्छायाकुसुमनिकरयोः संदिह्यमानत्वमिति संदेहालंकारध्व-
निश्च । प्रदोषकाल इति च सिध्यति, तदात्वस्य तदानीमेवौचि-
त्यात्; यथा कुमारसंभवे — 'यत्र स्फटिकहर्म्येषु नक्तं सोपानप-
तिषु । ज्योतिषां प्रतिबिम्बानि प्राप्नुवन्त्युपहारताम् ॥ इति । उत्तम-
स्त्रीशब्दस्य मुख्यवाच्यभूताभिर्यक्षोभिः सहिताः । आसेवन्ते न पुनः
केवलं पिचन्ति, दयितामुखपुण्डरीकगण्डूपादानादिभिः सरसतरीकृत्य
सचमत्कारमास्वादयन्तीत्यर्थः । रतिफलं त्रपानिगलनिर्गलननिरर्गलं
निधुवनं प्रयोजनं यस्य । कल्पवृक्षप्रसूतिं कल्पतरुपुष्परसनिष्पादितम्,
पुष्पासवाघूर्णितनेत्रशोभम्' इतिवत् । अथवा, दिव्यजनोपभोगाय
सुरतरुकोटरे देव्या वारुण्याः संनिधानात् ततो निष्ठयूतम्, 'इत्युक्ता
वारुणी तेन संनिधानमथाकरोत् । वृन्दावनवनोत्पन्नकदम्बतरुको-
टरे ॥' इति श्रीविष्णुपुराणोक्तत्वात् । अनेन लोकोत्तरगन्धरसस्पर्श-
वीर्यविपाकादिमत्त्वं मधुनो ध्वन्यते । त्वद्गम्भीरध्वनिषु त्वद्वत् स्निग्ध
धीरघोषेषु । शनकैः नातिद्रुतम्, मधुपानोत्सवस्य दीर्घकालभावि-
त्वात्तान्यपि मन्द्रमधुरं मन्दं शब्दायन्त इत्यर्थः । पुष्करेषु मुरवा-
6