This page has been fully proofread once and needs a second look.

द्वितीयाश्वासः ।
 
अथ तद्वासिनां विलासिनाम् अनुपमरसासेवनेन सफलोद्दामयौव-

नत्वमाइ –ह-- यस्यामिति । यक्षाः निधिपतित्वेन प्रसिद्धसमृद्धिकाः ।

सितमणिमयानि सितमणिः स्फटिकशिला, अथवा मुक्ता शिला, तन्नि-
मिं

र्मि
तानि । हर्म्यस्थलानि सौधशिखरकुट्टिमानि । ज्योतिश्छायाकुसुम-

खचितानि ज्योतिषां नक्षत्रमद्दग्रहताराणां प्रतिबिम्बरूपैः पुष्पोपहारैः

संमिश्राणि । अथवा छायाभिः कुसुमैश्च संकीर्णानि । अनेन हर्म्यव-
शृ-
ङ्गाणां तारापथसंनिकृष्टत्वम्, मणिकुट्टिमानां प्रसादसंपञ्च ध्वन्यते ।

ज्योतिश्छायाकुसुमनिकरयोः संदिह्यमानत्वमिति संदेहालंकारध्व-

निश्च । प्रदोषकाल इति च सिध्यति, तदात्वस्य तदानीमेवौचि-

त्यात्; यथा कुमारसंभवे-- 'यत्र स्फटिकहर्म्येषु नक्तं सोपानप-

ङ्क्
तिषु । ज्योतिषां प्रतिबिम्बानि प्राप्नुवन्त्युपहारताम् ॥ इति । उत्तम-

स्त्रीशब्दस्य मुख्यवाच्यभूताभिर्यक्षोभिः सहिताः । आसेवन्ते न पुनः

केवलं पिन्ति, दयितामुखपुण्डरीकगण्डूपादानादिभिः सरसतरीकृत्य

सचमत्कारमास्वादयन्तीत्यर्थः । रतिफलं त्रपानिगलनिर्गलननिरर्गलं

निधुवनं प्रयोजनं यस्य । कल्पवृक्षप्रसूतिं कल्पतरुपुष्परसनिष्पादितम्,

पुष्पासवाघूर्णितनेत्रशोभम्' इतिवत् । अथवा, दिव्यजनोपभोगाय

सुरतरुकोटरे देव्या वारुण्याः संनिधानात् ततो निष्ठयूतम्, 'इत्युक्ता

वारुणी तेन संनिधानमथाकरोत् । वृन्दावनवनोत्पन्नकदम्बतरुको-

टरे ॥' इति श्रीविष्णुपुराणोक्तत्वात् । अनेन लोकोत्तरगन्धरसस्पर्श-

वीर्यविपाकादिमत्त्वं मधुनो ध्वन्यते । त्वद्गम्भीरध्वनिषु त्वद्वत् स्निग्ध
-
धीरघोषेषु । शनकैः नातिद्रुतम्, मधुपानोत्सवस्य दीर्घकालभावि-

त्वात्तान्यपि मन्द्रमधुरं मन्दं शब्दायन्त इत्यर्थः । पुष्करेषु मुरवा-
6