This page has been fully proofread once and needs a second look.

१०२
 
मेघसंदेशे
 
'इसि चुम्बिआइ भमरेहिं सुउमारकेसरसिहाइ । ओदंसअन्ति दअमाणा

पमदाओ सिरीसकुसुमाइ' इति; रघुवंशे च-- अमी शिरीषप्रसवावतंसाः

प्रभ्रंश्चिशिता वारिविहारिणीनाम् ।' इति । सीमन्ते केशमध्यरेखायाम् ।

त्वदुपगमजं त्वमस्मिन् उपगच्छसीति त्वदीयः प्रावृट्कालः त्वदुपगम

इत्युच्यते, घनागम इति प्रावृषः पर्यायत्वात् । ततो जायमानं नीपं

कदम्बपुष्पम् । नीपं च वर्षासमयचिह्नम्; तथा रघुवंशे-- 'गन्धश्च

धाराइतपत्हतपल्वलानां कदम्बमर्धोद्गतकेसरं च' इति । ऋत्वन्तरसंबन्धिनां

लीलाकमलादीनामर्थोन्नेयत्वेनोक्तौ, नीपस्य तु त्वदुपगमजमिति

कण्ठोक्त्या प्रकाशनमन्येभ्यः सर्वेभ्यस्त्वदीयं कदम्बमेव सुषमासंपाद-
कृ

तया प्रशस्तेन सीमन्तस्थानेन धार्यत इति मेघस्य चाटुकरणार्थम् ।

अत्र च पर्यायभाविनां परस्परविरुद्धगुणानामृत्तूनां युगपदेव तत्रावस्था-

नात् सर्वस्यापि यथाभिलषितभोगसामग्रीतो विषयिणां ततः परं किं

विशिष्टं भोगस्थानमिति प्रकाश्यते । वधूनामिति, अनन्यसामान्याक-

ल्पकल्पनेनोत्तमस्त्रीणां तत्रत्यानामालम्बनविभावतापरिपोष उक्तः ।

अत्र कार्यमुखेन कारणानामभिधानाद प्रस्तुतप्रशंसालंकारः । गम्यस्यापि

भङ्ग्यन्तरेणाभिधानात् पर्यायोक्तं वा । भूतभाविनां प्रत्यक्षायमाण-

त्वात् भाविकं वा ॥ २ ॥
 

 
यस्यां यक्षाः सितमणिमयान्येत्य हर्म्यस्थलानि

ज्योतिश्छायाकुसुमखचितान्युत्तमस्त्रीसहायाः ।

आसेवन्ते मधु रतिफलं कल्पवृक्षप्रमूर्ति
सूतिं
त्वद्गम्भीरध्वनिषु शनकैः पुष्करेष्वाहतेषु ॥ ३ ॥