This page has been fully proofread once and needs a second look.


इति पाठः, 'अलकाश्‍चूर्णकुन्तलाः' इत्यमरसिंहेनालकानां पुल्लिंग-
विधानात्, तथा प्रयोगबाहुल्यदर्शनाच्च । बालैः नवैः कुन्द-
पुष्पैः । अथवा बालानां कुन्दद्रुमाणां पुष्पैरिति धावल्यात्परभागाय
निहितैरविरहिता: स्निग्धनीलाश्चूर्णकुन्तला इत्यर्थः । कुन्दपुष्पं च
हेमन्तसमयलक्षणम्; यथा शाकुन्तले-- 'भ्रमर इव विभाते कुन्द
मन्तस्तुषारम्' इति । लोध्रप्रसवरजसा लोध्राख्यवृक्षविशेषपुष्पपरा-
गेण । दनलक्ष्मीपाण्डुताकरणं तेन सौन्दर्यातिशयाथैर्थे काव्येषु प्रसिः
द्धम्; तथा कुमारसंभवे-- 'कर्णार्पितो लोभ्ध्रकषायरूक्षे गोरोचनाप-
त्रनितान्तगौरे' इति; माघे च-- 'अधरेप्वलक्तकरजः सुदृशां विशदं
कपोलभुवि लोध्ररजः' इति । लोध्रपुष्पं च शिशिरकाललक्षणम् ।
माघे हेमन्ते च-- 'अभिषिषेणयितुं भुवनानि यः स्मरमिवाख्यत
लोध्ररजश्चयः' इति लोभ्ध्रस्य, शिशिरे च-- 'स्फुटमिति प्रसवेन
पुरो सत्सपदि कुन्दलता दलतालिनः' इति, विक्रमोर्वशीये च--
'निषिञ्चन्माधवीवृद्धिं कुन्दशेषं च वर्तयन्' इति कुन्दस्य वर्णनं
हेमन्तसंबन्धिनः कुन्दस्य शिशिरेऽनुवृत्तेः, शिशिरसंबन्धिनो लोभ्रत्ध्रस्
हेमन्ते प्रारम्भाच्चेति मन्तव्यम् । चूडापाशे बद्धकेशकलापे । 'धम्मिल्लः
संद्दताः कचाः। शिखा चूडा केशपाशे' इत्यमरः । नवकुरवकं तत्का-
लविकसितं कुरवकतरोः कुसुमम् । तच्च वसन्तसमये केतनभूतम्,
'कुरवका रवकारणतां ययुः' इति, 'अग्रे स्त्रीनखपाटलं कुरकम्'
इति च काव्येषु प्रसिद्धेः। चारु सहृदयचमत्कारकारि, सौकुमार्यसौन्द-
र्यानुगुण्यात् । कर्णे श्रवणशिखरे, अवतंसतया न्यस्तं शिरीषं शिरीषाख्य-
तरुप्रसूनम् । तत् ग्रीष्मर्तोरसाधारणं लिङ्गम्; यथा शाकुन्तले
 
--