This page has been fully proofread once and needs a second look.

मेघसंदेशे
 
देगन्तरत्वम्, प्रसन्नमसृणशीतलाभ्यन्तरशमितश्रम-
-यत्वं चेति विद्युदादिभिर्वनितादीनां प्रतीयमानः
। त्वां तुलयितुमलमित्यनेन अहो चिरात्सदृशयः
नीति ध्वन्यते । तत्समानगुणतया च त्वां तत्रत्यः
 
विविक्ततया न ज्ञास्यत इति सामान्यं तद्गुणो
। उपमा चात्रालंकारः। अलकावर्णनान्तर्गतानामे-
मलकां न न शास्यस इति पूर्वत्रान्वयः; तत्रागार
पर्यवसानम् ॥ १ ॥
 
लाकमलमलका बालकुन्दानुविद्धा
लोध्रप्रसवरजसा पाण्डुतामाननश्रीः ।
नवकुरवकं चारु कर्णे शिरीषं
तेच त्वदुपगमजं यत्र नीपं वधूनाम् ॥ २ ॥
रमेश्वराराधनाय युगपतुषट्कस्य यथास्व कार्यसमग्र-
थाकुसुमसंभारसंपादनमात्रेण वा संनिधानाद्देशान्तरेभ्यः
माइ हस्त इति । हस्ते लीलाकमलमिति, शर
 
लीलार्थ कमलं करतले यथा शरदर्णने सेतो-
अण्णं घणरोह विमुकदिणअरकराळिद्धम्। परिससुहा-
ज्झइ जळणिहित्तणाळं गळिणम् ॥' इति; तथा हर्षच
कमले मधुस्यन्दीन्दीवरे' इति; रघुवंशे च ' पुण्डरी
लसत्काशचामरः' इति । अलका बालकुन्दानुविद्धा
 
द्वितीयाश्वासः ।
 
१०१.
 

इति पाठः, 'अलकाश्‍चूर्णकुन्तलाः' इत्यमरसिंहेनालकानां पुल्लिंग-

विधानात्, तथा प्रयोगबाहुल्यदर्शनाच्च । बालैः नवैः कुन्द-

पुष्पैः । अथवा बालानां कुन्दद्रुमाणां पुष्पैरिति धावल्यात्परभागाय

निहितैरविरहिता: स्निग्धनीलादचूर्णकुन्तला इत्यर्थः । कुन्दपुष्पं च

हेमन्तसमयलक्षणम्; यथा शाकुन्तले – 'भ्रमर इव विभाते कुन्द

मन्तस्तुषारम्' इति । लोध्रप्रसवरजसा लोध्राख्यवृक्षविशेषपुष्पपरा-

गेण । बदनलक्ष्मीपाण्डुताकरणं तेन सौन्दर्यातिशयाथै काव्येषु प्रसिः

इम्; तथा कुमारसंभवे – 'कर्णार्पितो लोभ्रकषायरूक्षे गोरोचनाप-

त्रनितान्तगौरे' इति; माघे च- 'अधरेप्वलक्तकरजः सुदृशां विशदं

कपोलभुवि लोध्ररजः' इति । लोध्रपुष्पं च शिशिरकाललक्षणम् ।

माघे हेमन्ते च – 'अभिषिषेणयितुं भुवनानि यः स्मरमिवाख्यत

लोभरजश्चयः' इति लोभ्रस्य, शिशिरे च– 'स्फुटमिति प्रसवेन

पुरो इसत्सपदि कुन्दलता दलतालिनः' इति, विक्रमोर्वशीये च–

'निषिञ्चन्माधवीवृद्धिं कुन्दशेषं च वर्तयन्' इति कुन्दस्य वर्णनं

हेमन्तसंबन्धिनः कुन्दस्य शिशिरेऽनुवृत्तेः, शिशिरसंबन्धिनो लोभ्रत्य

हेमन्ते प्रारम्भाच्चेति मन्तव्यम् । चूडापाशे बद्धकेशकलापे । 'धम्मिल्लः

संद्दताः कचाः। शिखा चूडा केशपाशे' इत्यमरः । नवकुरवकं तत्का-

लविकसितं कुरवकतरोः कुसुमम् । तच्च वसन्तसमये केतनभूतम्,

'कुरवका रवकारणतां ययुः' इति, 'अग्रे स्त्रीनखपाटलं कुरबकम्'

इति च काव्येषु प्रसिद्धेः। चारु सहृदयचमत्कारकारि, सौकुमार्यसौन्द-

र्यानुगुण्यात् । कर्णे श्रवणशिखरे, अवतंसतया न्यस्तं शिरीषं शिरीषाख्य-

तरुप्रसूनम् । तत् ग्रीष्मर्तोरसाधारणं लिङ्गम्; यथा शाकुन्तले–