This page has not been fully proofread.

द्वितीयाश्वासः ।
 
स्निग्धपर्जन्यघोषम् अपरुषवृष्ट्युद्योगस्तनितयुक्तम् ; 'अन्नाद्भवन्ति
भूतानि पर्जन्यादन्नसंभवः । यज्ञाद्भवति पर्जन्यो यज्ञः कर्मसमु-
द्भवः॥' इति भगवद्वचने पर्जन्यशब्दस्य दृष्टिवाचकत्वावगतेः ।
वैजयन्त्यां तु ' पर्जन्यो गर्जदभ्रेऽपि स्वाने शक्रेऽर्थयन्त्रके ' इति श्रव-
णात्तदानीं स्निग्धगर्जनघोषमिति व्याख्येयम् । अन्तःस्तोयम् उदर-
बर्तिजलम् । मणिमयभुवः स्फटिकादिरत्नबद्धभूतलाः । तुङ्गम् उन्न-
तम् । अभ्रंलिद्दाग्राः गगनशृङ्गस्पर्शिशिखराः । 'वहाभ्रे लिह: '
इति खश् । प्रासादाः यक्षेन्द्राणां देवयोनिविशेषाणां भवनविशेषाः।
'हर्म्यादिर्धनिनां वासः प्रासादो देवभूभुजाम्' इत्यमरः । तुलयितुम्
उपमानीकर्तुम् । तुलाशब्दः सदृशवाचकोऽप्यस्ति; तस्मात् 'तत्क-
रोति —' इति णिच् । 'तुल उन्माने' इत्ययं धातुश्चौरादि-
कः । तस्मिन्वा अलं पर्याप्ताः । यत्र यस्यामल
मलकानगर्याम् । तैस्तैः
उक्तैरनुक्तैः प्रालम्बमुक्तादामत्वादिभिर्घारापातादिविशिष्टमिति बहु-
भिः पुरान्तरव्यावर्तकैर्धर्मैः । अत्र द्वितीयान्तानां मेघविशेषणत्वे-
नैकतः, प्रथमान्तानां प्रासादविशेषणत्वेनान्यतश्चान्वयेऽर्थसामर्थ्या-
द्विद्युदादिभिर्बनितादीनामुपमेयत्वसिद्धिः । 'संगीताय प्रहृतमुरवाः
स्निग्धपर्जन्यघोषम्' इत्यत्र प्रक्रमभङ्गशङ्का न कर्तव्या; स्निग्धध्वानं
ग्रहतमुरजाः साधुसङ्गीतहेतोरित्यादिप्रयोगप्रकारसौकर्येऽपि, विवक्षि-
तार्थप्रतिपादकश्लिष्टमधुरसंदर्भ एव संरम्भोऽस्मादृशानाम्, न पुन-
रीदृशक्षुद्रदोषास्थादौःस्थ्यमिति रससुधार्णवकर्णधारेण कवीन्द्रेण
स्वातन्त्र्यप्रकाशनात् । अत्र च कनकावदातलोललावण्यालोकले-
पित्वम्, स्निग्धदीप्तसंकीर्णविविधवर्णरमणीयत्वम्, गम्भीरमधुरनि-
Universität Hamburg
 
Seminar für Kultur und Geschichte Indiens
Hamburg -
 
-
 
९९