This page has been fully proofread once and needs a second look.


मलकामालोचयता, हनूमतो लङ्कायामिव मेघस्यालकायां सायं प्रवेश
समर्थयता, हनूमत इव रात्रौ तनुतनूकरणपूर्वकं मेघस्य संदेशार्थ-
कथनं संगमयता, अशोकवनिकामध्यवर्तिन्या अशरणाया जानक्या
अतिकरुणामवस्थां वर्णयन्तमनुसृत्य वाल्मीकिमन्यूनानतिरिक्तं तदु-
क्तानि मैथिलीविशेषणान्येव प्रकृतेऽपि नायिकायां घटयता, संदेश-
प्रघट्टकस्थितमेवाभिज्ञानदानमत्राप्यन्तर्भावयता महाकविनानेन साधु
समाकलितः स्वाभिसंधिप्रकाशनप्रकार इति न खल्विदं तिरोहितं
सहृदयानाम् । अस्य चार्थस्य समासोक्तिगर्भाप्रस्तुतप्रशंसावान्तरभेद-
रीत्या प्रबन्धव्यङ्ग्यत्वाभ्युपगमात् तत्रेवात्राप्युक्ता अर्थाः शब्दाश्च
सर्वथा अनुकूला एवेति न काचिदनुपपत्तिः । एतेन "कवेर्यक्षवृत्ता-
न्ते सीताराघववृत्तान्तसमाधिरस्तीति केचित्, तन्न सहृदयसंवादाय;
प्रयोजनाभावात्, कविनैव 'जनकतनयास्नान' इति 'रघुपतिपदैः’
इति चात्यन्ततटस्थतया प्रतिपादितत्वात्, उपरि च 'इत्याख्याते
पवनतनयं मैथिलीवोन्मुखी सा' इत्यत्र उपमानतया प्रतिपादयिष्य-
माणत्वात् उपमेयस्यार्थस्यात्यन्तभेदः कण्ठोक्त इति" इति केषां
चिद्यत्यवस्थानमपि प्रशान्तम्; संचारिस्वशब्दोक्तिन्यायेन इतरव्याव-
र्तनाय उपमानतयोक्तेः संभवत्समर्थनत्वात् । अस्तु वा तत्र शास्त्रीयः
कश्चन विरोधः ; कवेर्मनसि तु हनुमत्संदेश एक विपरिवर्तत इत्यत्र
सचेतसां हृदयमेव प्रमाणम्।[^1]
 

[^1] तदेतदखिलमनुसंधायैव तत्रभवान्कवितार्किकसिंहः सर्वतन्त्र-
स्वतन्त्रः श्रीमान्वेङ्कटनाथार्यः-- यः किल कवीनां कविः, दार्श-
निकानां दार्शनिकः, वेदान्तिनां वेदान्ती, निबन्धॄणां निबन्धा,