This page has been fully proofread once and needs a second look.

(३)
 

मलकामालोचयता, हनूमतो लङ्कायामिव मेघस्यालकायां सायं प्रवेशं

समर्थयता, हनूमत इव रात्रौ तनुतनूकरणपूर्वकं मेघस्य संदेशार्थ -
-
कथनं संगमयता, अशोकवनिकामध्यवर्तिन्या अशरणाया जानक्या

अतिकरुणामवस्थां वर्णयन्तमनुसृत्य वाल्मीकिमन्यूनानतिरिक्तं तदु-

क्
तानि मैथिलीविशेषणान्येव प्रकृतेऽपि नायिकायां घटयता, संदेश-

प्रघट्टकस्थितमेवाभिज्ञानदानमत्राप्यन्तर्भावयता महाकविनानेन साघु
धु
समाकलितः स्वाभिसंधिप्रकाशनप्रकार इति न खल्विदं तिरोहि
तं
सहृदयानाम् । अस्य चार्थस्य समासोक्तिगर्भाप्रस्तुतप्रशंसावान्तरभेद-

रीत्या प्रबन्धव्यङ्ग्यत्वाभ्युपगमात् तत्रैरेवात्राप्युक्ता अर्थाः शब्दाश्

सर्वथा अनुकूला एवेति न काचिदनुपपत्तिः । एतेन "कवेर्यक्षवृत्ता-

न्ते सीताराघववृत्तान्तसमाधिरस्तीति केचित्, तन्न सहृदयसंवादाय;

प्रयोजनाभावात्, कविनैव 'जनकतनयास्तानान' इति 'रघुपतिपदैः

इति चात्यन्ततटस्थतया प्रतिपादितत्वात्, उपरि च 'इत्याख्याते.

पवनतनयं मैथिलीवोन्मुखी सा' इत्यत्र उपमानतया प्रतिपादयिष्य-

माणत्वात् उपमेयस्यार्थस्यात्यन्तभेदः कण्ठोक्त इति" इति केषां

चिद्यत्यवस्थानमपि प्रशान्तम्; संचारित्स्वशन्ब्दोक्तिन्यायेन इतरव्याव-

र्तनाय उपमानतयोक्तेः संभवत्समर्थनत्वात् । अस्तु वा तत्र शास्त्रीयः

कश्चन विरोधः ; कवेर्मनसि तु हनुमत्संदेश एक विपरिवर्तत इत्यत्र

सचेतसां हृदयमेव प्रमाणम्
 
>
 
444
 
9
 
।[^1.]
 
 
[^1]
तदेतदखिलमनुसंधायैव तत्रभवान्कवितार्किकसिंहः सर्वतन्त्र-

स्वतन्त्रः श्रीमान्वेङ्कटनायाथार्यः-- यः किल कवीनां कविः, दार्श-

निकानां दार्शनिकः, वेदान्तिनां वेदान्ती, निबन्धूधॄणां निबन्धा,