This page has not been fully proofread.

(३)
 
मलकामालोचयता, हनूमतो लङ्कायामिव मेघस्यालकायां सायं प्रवेशं
समर्थयता, हनूमत इव रात्रौ तनुतनूकरणपूर्वकं मेघस्य संदेशार्थ -
कथनं संगमयता, अशोकवनिकामध्यवर्तिन्या अशरणाया जानक्या
अतिकरुणामवस्थां वर्णयन्तमनुसृत्य वाल्मीकिमन्यूनानतिरिक्तं तदु-
तानि मैथिलीविशेषणान्येव प्रकृतेऽपि नायिकायां घटयता, संदेश-
प्रघट्टकस्थितमेवाभिज्ञानदानमत्राप्यन्तर्भावयता महाकविनानेन साघु
समाकलितः स्वाभिसंधिप्रकाशनप्रकार इति न खल्विदं तिरोहित
सहृदयानाम् । अस्य चार्थस्य समासोक्तिगर्भाप्रस्तुतप्रशंसावान्तरभेद-
रीत्या प्रबन्धव्यङ्गयत्वाभ्युपगमात् तत्रैवात्राप्युक्ता अर्थाः शब्दाच
सर्वथा अनुकूला एवेति न काचिदनुपपत्तिः । एतेन "कवेर्यक्षवृत्ता-
न्ते सीताराघववृत्तान्तसमाधिरस्तीति केचित् तन्न सहृदयसंवादाय;
प्रयोजनाभावात्, कविनैव 'जनकतनयास्तान' इति 'रघुपतिपदैः
इति चात्यन्ततटस्थतया प्रतिपादितत्वात्, उपरि च 'इत्याख्याते.
पवनतनयं मैथिलीवोन्मुखी सा' इत्यत उपमानतया प्रतिपादयिष्य-
माणत्वात् उपमेयस्यार्थस्यात्यन्तभेदः कण्ठोक्त इति" इति केषां
चियत्यवस्थानमपि प्रशान्तम्; संचारित्वशन्दोक्तिन्यायेन इतरव्याव-
र्तनाय उपमानतयोक्तेः संभवत्समर्थनत्वात् । अस्तु वा तत्र शास्त्रीयः
कश्चन विरोधः ; कवेर्मनसि तु हनुमत्संदेश एक विपरिवर्तत इत्यत्र
सचेतसां हृदयमेव प्रमाणम्
 
>
 
444
 
9
 
1. तदेतदखिलमनुसंधायैव तत्रभवान्कवितार्किकसिंहः सर्वतन्त्र-
स्वतन्त्रः श्रीमान्वेङ्कटनायार्यः– यः किल कवीनां कविः, दार्श-
निकानां दार्शनिकः, वेदान्तिनां वेदान्ती, निबन्धूणां निबन्धा,