This page has not been fully proofread.

॥ श्रीः ॥
 
॥ द्वितीय आश्वासः ॥
 
ger
 
rare
 
विद्युत्वन्तं ललितवनिताः सेन्द्रचापं सचित्राः
संगीताय महतमृरवाः स्निग्धपर्जन्यघोषम् ।
अन्तस्तोयं मणिमयभुवस्तुङ्गमभ्रंलिहाग्राः
प्रासादास्त्वां तुलयितुमलं यत्र तैस्तैर्विशेषैः ॥१॥
 
अथ 'संदेशं मे तदनु जलद श्रोप्यसि' इत्युद्दिष्टस्य संदेशस्य प्राप्ता-
पुरवर्णनतदन्तःपातिस्वभवनलक्षणतत्प्रा-
वसरतया तमारभमाणः,
 
तिस्वप्रियादर्शनतदीयतत्कालदशातदुपसरणप्रकारादीनि संदेशात्पुरो -
भावीनि तत्प्रसङ्ग।ङ्गानि प्रतिपिपादयिषुस्तत्र पूर्वभागप्रस्तुतां राजरा-
जराजधानीमेव वर्णयितुमुपक्रमते - विद्युत्वन्तमिति । विद्युत्वन्तं
सौदामिनीसद्दितम् । 'तसौ मत्वर्थे ' इति भसंज्ञा; तेन तकारस्य
पदाश्रयं जश्त्वं न भवति । ललितवनिताः ललिता: रूपवेषविलासा-
दिभिर्मधुराः स्त्रियो येषु, यक्षीणां स्त्रीषु विशिष्टत्वात् । सेन्द्रचापं इन्द्र-
धनुःसद्दितम् । सचित्रा: आलेख्ययुक्ताः । संगौताय नृत्तगीतवाद्यप्रयो-
गार्थम् । प्रदतमुरबा: ताडितत्वेन शब्दायमानमुरवाख्यवाद्यविशेषाः ।