This page has been fully proofread once and needs a second look.

॥ श्रीः ॥
 
॥ द्वितीय आश्वासः ॥
 
ger
 
rare
 

 
विद्युत्वन्तं ललितवनिताः सेन्द्रचापं सचित्राः

संगीताय प्रहतमृमुरवाः स्निग्धपर्जन्यघोषम् ।

अन्तस्तोयं मणिमयभुवस्तुङ्गमभ्रंलिहाग्राः

प्रासादास्त्वां तुलयितुमलं यत्र तैस्तैर्विशेषैः ॥१॥
 

 
अथ 'संदेशं मे तदनु जलद श्रोप्ष्यसि' इत्युद्दिष्टस्य संदेशस्य प्राप्ता-
पुरवर्णनतदन्तःपातिस्वभवनलक्षणतत्प्रा-

वसरतया तमारभमाणः,
 
पुरवर्णनतदन्तःपातिस्वभवनलक्षणतत्प्रा-
प्
तिस्वप्रियादर्शनतदीयतत्कालदशातदुपसरणप्रकारादीनि संदेशात्पुरो -
-
भावीनि तत्प्रसङ्ग।गाङ्गानि प्रतिपिपादयिषुस्तत्र पूर्वभागप्रस्तुतां राजरा-

जराजधानीमेव वर्णयितुमुपक्रमते -- विद्युत्वन्तमिति । विद्युत्वन्तं

सौदामिनीसद्दिहितम् । 'तसौ मत्वर्थे ' इति भसंज्ञा; तेन तकारस्य

पदाश्रयं जश्त्वं न भवति । ललितवनिताः ललिता: रूपवेषविलासा-

दिभिर्मधुराः स्त्रियो येषु, यक्षीणां स्त्रीषु विशिष्टत्वात् । सेन्द्रचापं इन्द्र-

धनुःसद्दिहितम् । सचित्रा: आलेख्ययुक्ताः । संगौगीताय नृत्तगीतवाद्यप्रयो-

गार्थम् । प्रदतमुरबावा: ताडितत्वेन शब्दायमानमुरवाख्यवाद्यविशेषाः ।