This page has not been fully proofread.

प्रथमाश्वासः ।
(61)
 
(63)
 
इति, 'या वः काले' इति, 'धर्मलब्धस्य' इति ' परिणतशर-
(11.43)
च्चन्द्रिकासु"इत्यादीनामविरोधः, कार्यान्तराणां तत्रापि देशान्तरसा-
धारण्यात् । सलिलोद्गारं जलमुद्गिरति सलिलधारां वर्षतीति सलिलो-
द्वारम् । 'कर्मण्यण् ' । उच्चैः उन्नतैः, अर्थान्मेघमार्गातिक्रान्तशिखरै
रित्यर्थः । विमानैः पुष्पकादिभिर्देवयानैर्भवनभूतैः । अथवा सप्त-
भूमैः प्रासादविशेषैः । बहुवचन प्रयोगेऽपि सर्वेषामपि विमानानां
संभूय नगर्याः शिरस्त्वेनावस्थानादेकोत्तमाङ्गस्थानीयत्वमेव, एकस्याः
कामिन्याः शिरोबहुत्वानुपपत्तेः । 'विमानोऽस्त्री देवयाने सप्तभूमे च
सद्मनि' इति वैजयन्ती । मुक्ताजालग्रथितं प्रशस्तमुक्ताफलगुम्भितो
गत्राचाकारो भूषणविशेषो मुक्ताजालम् तेन ग्रथितं चद्धम् ।
अलकमिति जात्येकवचनम्; चूर्णकुन्तलनिकरमित्यर्थः; अभ्रवृन्द-
स्योपमानत्वात् । कामिनीवेति । यथा कामिन्यास्तदानीं निकामप्रेक्ष
णीयत्वम्, तथा तस्यास्तदानीमिति ध्वन्यते । अभ्रवृन्दं सलिलोद्गा-
रमित्युक्तत्वाजलगर्भतया स्निग्धनीलमिति सिद्धयति, अलकोपमेय-
त्वात् । उपमात्रालंकार: H
 
,
 
अत्र च 'मार्गे तावच्छृणु' इति प्रतिज्ञातस्य मार्गकथनस्य संपूर्ण-
त्वात्पूर्वभागस्य परिसमाप्तौ प्रणयिन उत्सङ्गे स्वलंकृतां कामिनीमिवेति
यक्षवचनद्वारेण भविष्यत्तदीयप्रियासमागमसूचकं मङ्गलं कविकुल-
चकोरचन्द्रेण प्रयुक्तं वेदितव्यमिति मङ्गलम् ॥
 
इति श्रीपूर्णसरस्वतीविरचितया विद्युल्लताख्यया व्याख्यया समेते
महाकविश्रीकालिदासकृते मेघसंदेशे
 
प्रथमाश्वासः समाप्तः ।
 
M 7