This page has not been fully proofread.

बहुचचनेन बहुमुखत्यान्मरुतां बहूनां कल्पद्रुमाणामंशुकानां युगपदू
 
ननं प्रतिपाद्यते; ततश्च सर्वतः पर्वतकटके मङ्गलवैजयन्ती संतानसौ.
 
प्रथमाश्वासः ।
 
.
 

 
भाग्यं भविष्यतीति ध्वन्यते; यथा कुमारसंभवे – 'यत्र कल्पद्रुमैरेव
 
-
 
विलोलविटपांशुकैः । गृहयन्त्रपताका श्रीरपौरादरनिर्मिता ॥ ' इति ।
उक्तं चेष्टान्तरमुपलक्षणं चेष्टान्तराणाम्, कामादित्युक्त वात्; अव
आइ- नानाचेष्टैः विबिधव्यापारैः । अनेना बुद्धिपूर्वकतदात्वोन्मी-
लत्स्वाभाविकसुकुमारचेष्ट:वैविध्योज्ज्वलत्वमुक्तम् । जलदेति, मेघजा
त्युचितं च सर्वमात्रेःष्टतव्यम्– विद्युत्स्फुरणैः प्रकाशनम्, स्तनितैर्द-
रीविवरपूरणमित्यादि च द्योत्यते । ललितैः पुरुषगुणविशेषैः। यथाद्द
दिवाकरः— 'अबुद्धिपूर्वजं यत्तु सुकुमारं स्वभावजम् । शृङ्गाराकार-
चेष्टत्वं ललितं तदुदाहृतम् ॥' इति । ललितैरिति बहुवचनेन
प्रतिक्षणं रमणीयत्वान्नवनवत्वं ध्वन्यते । निर्विशेरिति, निर्विशेः उपभु-
ढ्ङ्क्ष्व। 'निर्देश उपभोगः स्यात्' इत्यमरः । उपभोगेन सफलमात्मा-
नं कुरु विशिष्टविषयोपभोगफलत्वाव्यवृष्टस्य शरीरग्रहणस्येति भावः ।
तं रमणीयतया प्रसिद्धम् । नगेन्द्रं पर्वतानां मध्ये परमैश्वर्यशालिन मिति
रमणीयताया हेतुः । अत्रोदात्तमलंकारः ॥ ६२ ॥
तस्योत्सने प्रणयिन इव सस्तगङ्गादुकूलां
 
न त्वं दृष्ट्वा न पुनरलकां ज्ञास्यसे कामचारी ।
या दः काले वहति सलिलोद्गारमुच्चैर्विमानै-
मुक्ताजालग्रथितमलकं कामिनीवाभ्रवृन्दम् ॥
अथानुपाकंरसमनुभूय गन्तव्या ते वसतिरलका नाम
 
6