This page has not been fully proofread.

मेघसंदेशे
 
हेमाम्भोजमसवि सलिलं मानसस्याददानः
कुर्वन्कामात्क्षणमुखपटप्रीतिभैरावतस्य ।
धून्वन्कल्पद्रुमकिसलयान्यंशुक्रानि स्त्रवातै-
कर्नानाचेष्टैर्जलद ललितैर्निर्विशेस्तं नगेन्द्रम् ॥६२॥
 
अथानन्यसामान्यगुणविशिष्टमतिचिरदृष्टं तमद्रिराजं यावदिच्छ-
मुपभुङ्क्ष्वैत्याइ–हेमेति । हेमाम्भोजप्रसवि कनककमलसंतानवि-
शिष्टम् । अनेन तजननोचितसारत्या लोकोत्तरत्वं सलिलस्य प्रकादयते ।
मानसस्येति, अविज्ञातकालुप्यत्वं सूच्यते । आददानः न पुनरात•
बान्। अनेन बहुशः समादानस्य मध्ये मध्ये सलिलमोक्षणहेतुकत्वात्,
कनकारविन्दगन्धबन्धुना मानससरोवारिणा भगवत्प्रीतये कैलासकट-
कावसेचनमसकृत्कर्तव्यमिति प्रकादयत । कुर्वनिति । यदा यदा
मलादानायावतीर्यते, तदा तदा संपादयन्नित्यर्थः । कामात् इच्छा-
मशात् । क्षणमुखपटप्रीति प्रतिगजादर्शनाय मुखे निधेयं दृष्टितिरों:
घायकं वस्त्रं मुखपटः, तर्जन्यां प्रीतिं तत्कृत्यानुष्ठानात् । क्षणमिति,
चिरावस्थाने मदनिम्नस्य तस्य समाकर्षणादिकदर्शनप्रसङ्गात्प्रमादः
परिहर्तव्य इति द्योत्यते । ऐरावतस्य कनककोकनदपण्डविहरणर-
सेन सरसि मजत: सुरेन्द्रकुञ्जरस्य । ऐरावतोपादानं तस्याभ्रमा..
तङ्गत्वात् बान्धवातिशयेन तत्प्रीतिकरणस्यावश्यकत्वध्वननार्थम् ।
धून्वन् कम्पयन्। कल्पद्रुमकिसलयानि तहगतसुरत पल्लवभूतानि ।
अंशुकानि अरुणसुकुमाराणि दुकूलानि । स्ववातैः 'अभ्रस्थाः प्रप-
तन्त्यापो वायुना समुदीरिताः' इति वचनात् वृष्टिनेरकैनिंजमारुतैः ।