This page has been fully proofread once and needs a second look.

मेघसंदेशे
 
हेमाम्भोजप्रसवि सलिलं मानसस्याददानः

कुर्वन्कामात्क्षणमुखपटप्रीतिभैमैरावतस्य ।

धून्वन्कल्पद्रुमकिसलयान्यंशुक्रानि स्त्रवातै-

र्नानाचेष्टैर्जलद ललितैर्निर्विशेस्तं नगेन्द्रम् ॥६२॥
 

 
अथानन्यसामान्यगुणविशिष्टमतिचिरदृष्टं तमद्रिराजं यावदिच्छ-

मुपभुङ्क्ष्वैत्याइवेत्याह–हेमेति । हेमाम्भोजप्रसवि कनककमलसंतानवि-

शिष्टम् । अनेन तजननोचितसारत्या वाल्लोकोत्तरत्वं सलिलस्य प्रकाश्यते ।

मानसस्येति, अविज्ञातकालुप्ष्यत्वं सूच्यते । आददानः न पुनरात•
बा
त्त-
वा
न्। अनेन बहुशः समादानस्य मध्ये मध्ये सलिलमोक्षणहेतुकत्वात्,

कनकारविन्दगन्धबन्धुना मानससरोवारिणा भगवत्प्रीतये कैलासकट-

कावसेचनमसकृत्कर्तव्यमिति प्रकादयतश्यते । कुर्वन्निति । यदा यदा

लादानायावतीर्यते, तदा तदा संपादयन्नित्यर्थः । कामात् इच्छा-

शात् । क्षणमुखपटप्रीतितिं प्रतिगजादर्शनाय मुखे निधेयं दृष्टितिरों:
घा
रो-
धा
यकं वस्त्रं मुखपटः, तर्जन्यां प्रीतिं तत्कृत्यानुष्ठानात् । क्षणमिति,

चिरावस्थाने मदनिम्घ्नस्य तस्य समाकर्षणादिकदर्नप्रसङ्गात्प्रमादः

परिहर्तव्य इति द्योत्यते । ऐरावतस्य कनककोकनदण्डविहरणर-

सेन सरसि मज्जत: सुरेन्द्रकुञ्जरस्य । ऐरावतोपादानं तस्याभ्रमा..
-
तङ्गत्वात् बान्धवातिशयेन तत्प्रीतिकरणस्यावश्यकत्वध्वननार्थम् ।

धून्वन् कम्पयन्। कल्पद्रुमकिसलयानि तगतसुरत पल्लवभूतानि ।

अंशुकानि अरुणसुकुमाराणि दुकूलानि । स्ववातैः 'अभ्रस्थाः प्रप-

तन्त्यापो वायुना समुदीरिताः' इति वचनात् वृष्टिनेप्रेरकैनिंर्निजमारुतैः ।