This page has not been fully proofread.

प्रथमावासः ।
 
९१
 

 
णमत्र
 
स्यानो चित्याद्रसभङ्ग
हेतुत्वमेव, औचित्यस्यैव सर्वत्र रखसुधणांवकर्ण-
धारत्वादिति भावः । सखे इति । सुहृत्कार्यव्यसनिनस्तव तदीयवि-
लासवागुरावश्यत्वमवश्यं न भावीत्यर्थः । धर्मलन्धस्य स्मरज्वरसंताप-
समये प्राप्तस्येत्यर्थः । 'निदाघ ऊष्मणि ग्रीष्मे स्वेदे घर्मस्तु तेष्वपि ।
आतपे तद्दिने च ' इति वैजयन्ती । ग्रीष्मकाले लब्ध इत्यर्थो न
घटते, सुरयुवतीनां विशेषतः परमेश्वरनिवासभूवे प्रदेशे सततमुखे
ग्रीष्मबाधे। क्तेरनौचित्यात्, 'आतङ्कः कुसुमायुधः' इति कुमारसं-
भवे, माघे च 'कुर्वन्ति यामुत्पतन्तः स्मरार्चस्वर्लोकस्त्रीगात्रनिर्वा-
" इति स्मरस्यैव तादृशीनां व्याधित्वोः तच्छ मनाच
कादम्बर्यादिषु हिमगृहादिनिर्माणवर्णनाच्च । घर्मलब्धस्थेत्यनेन स्वा-
पेश्चितसमये प्राप्तस्य तव अमोक्षणे दासीसुतानामम्बरचरशम्भ-
लीनां का हानिः; मम तु प्रयोजनं निर्मूलं नक्ष्यतीति द्योत्यते। क्री-
डालोला: त्वदधोभागे स्थित्वा त्वदीयधाराशी कर निर्वापितशरीरतया
ऋन्दुका दिविनोदपरत्वादन्यचित्ताः; अचिन्तितोपनतत्वे भयस्योद्वेल-
त्वादेति भावः । श्रवणपरुषैः यथा श्रवणे दुःसहत्वं भवेत्, तथा
प्रयुक्तरिति तत्काल विशेषणम् ; श्रवणसुभगत्वस्यैव स्वभावत्योक्तेः ।
गर्जितैः न तु गार्जेतैन । अनेनोपर्युपारे प्रवृत्तैराश्वासावसरो न देख
इत्युच्यते स्वविषयवैराग्योःपादनेन तासां पुनरनुसरणपरिहाराय। भा-
ययेः त्वासयेः; तत्रापि कृत्यमस्ति-- विभीषिकैब कार्या तासां
मार्दवरक्षणेन, न पुनर्मोहमरणादिजननेनात्यन्त निर्दयत्वमा विष्करणी-
यमिति भावः । ता इति । भीरवः कोमलशीलास्ताबतैव परिहरि-
प्यन्तीति भावः । अत्र परिणामोऽप्रस्तुतप्रशंसा चालंकारः ॥