This page has not been fully proofread.

मेघसंदेशे
 
तत्रावश्यं वलयकुलिशोद्धट्टनोद्गीर्णतोयं
नेष्यन्ति त्वां सुरयुवतयो यद्मधारागृहत्वम् ।
ताभ्यो मोक्षस्तव यदि सखे घर्मलब्धस्य न स्या-
स्क्रीडालोलाः श्रवणपरुपैर्गजितै र्भाय येस्ताः ॥
अथ तत्न प्रस्तुतकार्यप्रत्यूद्दसंभेदमुत्प्रेक्ष्य स परिहर्तव्य इत्याह-
तनावश्यामेति । अवश्यं निश्चितम् पुरापि तासां तादृशदुर्बिल-
सितानि मयानुभूतानीत्यर्थः । बलयकुलिशोद्धट्टनोद्गीर्णतोयं कङ्कण-
प्रत्युतवज्ररत्ननिशितकोटिपाटनजनितसूक्ष्मरन्ध्रजालप्रक्षरितजलकणम् ।
नेष्यन्ति प्रापयिष्यन्ति । त्वां सहजदाक्षिण्यत्रशंवदमित्यर्थः । सुरयुव-
तयः शिवसेवार्थ वा स्वैर विहाराय वा तत्र वर्तमाना देवलोकतरुण्यः ।
युवतय इत्यनेन, तासां स्मरशर संज्वरसौलभ्यं ध्वन्यते । बहुवचनेन
कयाचित्कंचित्कालमनुभूय मुक्तत्वे पुनरन्या, ततोऽप्यपरेति द्योत्यते ।
तथा यन्त्रे-
यन्त्रधारागृहत्वं स्थूणनिवहस्थापनमन्तरेण यथा तिष्ठेत्,
गोपायेन रचितमुपरिसलिलस्थापनयोग्यसौधसंनिवेशमधोनिषण्णानां
परितः पातुकवारिधाराशीकनिक रेणोष्णदुःखनिवारकं गृहविशेषं
यन्त्रधारागृहमाहुः, तद्भावम्; यथा रघुवंशे– 'शिलाविशेषानधि-
शय्य निन्युर्धारागृहेष्वातपमृद्धिमन्तः' इति । प्रबोधचन्द्रोदये च
'मुच्यन्तां यन्त्रमार्गाः प्रसरतु परितो वारिधारा गृहेषु इति । यन्त्र-
घारः गृहत्वमिति, ' गृहयन्त्रपताकाश्री: ' इतिवत् । मोक्षः अनुज्ञया
विसर्जनम् । न स्याद्यदीति। प्रस्थानप्रक्रमे पुनराकर्षणादिप्रसङ्गान्न कथं-
चिद्भवेदित्यर्थः; कार्यान्तरत्वरितस्य हृदयमविज्ञाय, तासामतिप्रसङ्ग-
९२
 
9