This page has been fully proofread once and needs a second look.

मेघसंदेशे
 
तत्रावश्यं वलयकुलिशोद्ट्टनोद्गीर्णतोयं

नेष्यन्ति त्वां सुरयुवतयो यद्मधारागृहत्वम् ।

ताभ्यो मोक्षस्तव यदि सखे घर्मलब्धस्य न स्या-
स्

त्
क्रीडालोलाः श्रवणपरुपैषैर्गर्जितै र्भाय येस्ताः ॥

 
अथ तत् प्रस्तुतकार्यप्रत्यूद्दसंभेदमुत्प्रेक्ष्य स परिहर्तव्य इत्याह-
तना

तत्रा
वश्यामेति । अवश्यं निश्चितम्, पुरापि तासां तादृशदुर्बिविल-

सितानि मयानुभूतानीत्यर्थः । लयकुलिशोद्ट्टनोद्गीर्णतोयं कङ्कण-

प्रत्युतवज्ररत्ननिशितकोटिपाटनजनितसूक्ष्मरन्ध्रजालप्रक्षरितजलकणम् ।

नेष्यन्ति प्रापयिष्यन्ति । त्वां सहजदाक्षिण्यत्रशंवंशवदमित्यर्थः । सुरयुव-

तयः शिवसेवार्थं वा स्वैर विहाराय वा तत्र वर्तमाना देवलोकतरुण्यः ।

युवतय इत्यनेन, तासां स्मरशर संज्वरसौलभ्यं ध्वन्यते । बहुवचनेन

कयाचित्कंचित्कालमनुभूय मुक्तत्वे पुनरन्या, ततोऽप्यपरेति द्योत्यते ।
तथा यन्त्रे-
यन्त्रधारागृहत्वं स्थूणनिवहस्थापनमन्तरेण यथा तिष्ठेत्,
तथा यन्त्रे--
गोपायेन रचितमुपरिसलिलस्थापनयोग्यसौधसंनिवेशमधोनिषण्णानां

परितः पातुकवारिधाराशीकनिक रनिकरेणोष्णदुःखनिवारकं गृहविशेषं

यन्त्रधारागृहमाहुः, तद्भावम्; यथा रघुवंशे-- 'शिलाविशेषानधि-

शय्य निन्युर्धारागृहेष्वातपमृद्धिमन्तः' इति । प्रबोधचन्द्रोदये च
--
'मुच्यन्तां यन्त्रमार्गाः प्रसरतु परितो वारिधारा गृहेषु' इति । यन्त्र-
घारः

धारा
गृहत्वमिति, ' गृहयन्त्रपताकाश्री: ' इतिवत् । मोक्षः अनुज्ञया

विसर्जनम् । न स्याद्यदीति। प्रस्थानप्रक्रमे पुनराकर्षणादिप्रसङ्गान्न कथं-

चिद्भवेदित्यर्थः; कार्यान्तरत्वरितस्य हृदयमविज्ञाय, तासामतिप्रसङ्ग-
९२
 
9