This page has been fully proofread once and needs a second look.

मेघसंदेशे
 
लीलया स्कन्धपीठनिहिते । लभृत इति, सीरेणैव विश्वसंरणचतुर-

भुजबलशालिनः कैलासौपम्ययोग्यस्य उत्तुङ्गस्य शरीराभोगस्य वैशि-

ष्ट्
यं प्रकाश्यते; यथा श्रीविष्णुपुराणे-- 'मत्तः कोपेन चाधूघूर्णेस्ततो-

ऽधिश्चेक्षेपजन्मना । उत्थाय वार्ष्ण्य वसुधां जघान स लायुधः ॥'

इति हलायुधशब्देन निरतिशयचलंबलविशिष्टस्योक्ति: । द्विरदरदनच्छेदगौ-

रत्वं लभृतोऽपि समम् । मेचके नीले, तस्य नीलाम्बरत्वात् सितव-
गंत्वा

र्णत्वाच्
च; यथा श्रीविष्णुपुराणे -- 'किं न पश्यसि दुग्धेन्दुमृणाल-

सदृशाकृतिम् । बलभद्र मिमं नीलपरिधानमुपागतम् ॥' इति । अत्रो-

मालंकारः ॥ ५९ ॥
 

 

 
हित्वा तस्मिन्भुजगवलयं शंभुना दत्तहस्ता

क्रीडाशैले यदि च विचरेत्पादचारेण गौरी ।

भङ्गी भक्त्या विरचितवपुः स्तम्भितान्तर्जलौघः

सोपानत्वं कुरु मणितटारोहणायाग्रयायी ॥६
 

 
अथ तत्र जगन्मातुर्हेहैमवत्याः शिवसहचरितायाः समयोचितं

सेवाप्रकारमाइ—ह-- हित्वेति । तस्मिन् कैलास । भुजगवलयं

नागरूपं कङ्कणम् । हित्वा देव्यास्त्रापरिहाराय । अनेन देवस्य देवी-
ठे

से
वायामत्रहितत्वं द्योत्यते । शंभुनेति । यः सर्वजंगतः सुखप्रसावकः,
पौ.

तस्य तत्तादृशसेवाप्रवर्तको देव्याः सौभाग्यातिशयो ध्वन्यते;

लोमीप्रमुखं मुखप्रतीक्षं परिजनं निषिध्य स्वयमेव देवस्त्र प्रसादनमत्र-
प्रवृ-
त्तिश्च । अथवा शंभुनेति निष्प्रत्यूहसंभोगसंपदे तन्मात्नसदारसहायत्वं सूच्यते ।
 
-