This page has not been fully proofread.

प्रथमाश्वासः ।
 
वितत्य आस्तीर्य । राशीभूतः एकत्र देशे संभरणात्पुञ्जीभूतः
त्र्यम्बकस्य त्रिभुवनसंहारदीत नेत्रत्रयस्य महेश्वरस्य । अनेन रौद्ररूपाव-
लम्बिन एव शंभोः स्पष्टाहास विशिष्टतेति व्यज्यते; यथा रघुवंशे-
'मद्देश्वरस्त्र्यम्बक एक नापरः' इति । अट्टहासः अतिशयो हासः १
'अट्टावंतिशयचौमौ' इति वैजयन्ती । प्रतिदिनमट्टहास इत्यन्वयः,
दिने दिने भवन्नट्टहास इत्यर्थः । हासस्यापि विकटदशनदीधितिनिच-
यनिचु लेतत्वात्कुमुद विशदत्वम् । विभातीति शेषः । उत्प्रेक्षालंकारः ॥
 
(
 
उत्पयामि त्वयि तटगते स्निग्धभिन्नाञ्जनाभे
सद्यःकृत्तद्विरदरदनच्छेद गौरस्य तस्य ।
शोभामद्रेः स्तिमितनयनप्रेक्षणीयां भवित्री-
मंसन्यस्ते सति हलभृतो मेचके वाससीव ॥ ५९॥
 
इ-
अथ तदुपसरणे भवतः कामपि मनोहरतां भाविनीमुत्प्रेक्ष इत्या-
उत्पश्यामि त्वयीति । तटगते अधित्यकाश्रयिणि, शिरःस्था-
नीयस्य शिखरस्याधोगतसानुसंनिषण्ण इत्यर्थः, अंसन्यस्तस्योपमान-
त्वात् । स्निग्धभिन्नाञ्जनाभे स्निग्धा तत्कालदलिताञ्जनशिलाकान्ति-
सदृशी च कान्तिर्यस्य तस्मिन् । सद्यः तत्काल एव कृत्तः छिन्नः
द्विरदरदनच्छेदः करिणो दन्तखण्डः, तद्वत् धवलवर्णस्य ।
मित्रसवः कृत्तशब्दाभ्यां धरणिधूलिधौ सर्यादिविरहात्मभाप्रकर्षः प्रका
इयते । स्तिमितनयनप्रेक्षणीयां विस्मयौत्सुक्यनिश्चलनेत्रैः प्रेक्षकैर्वैमा-
निकादिभिः प्रेक्षितुं योग्याम् । भवित्रीं भविष्यन्तीम् । असन्यस्ते