This page has been fully proofread once and needs a second look.

प्रथमाश्वासः ।
 
वितत्य आस्तीर्य । राशीभूतः एकत्र देशे संभरणात्पुञ्जीभूतः

त्र्यम्बकस्य त्रिभुवनसंहारदीप्तनेत्रत्रयस्य महेश्वरस्य । अनेन रौद्ररूपाव-

लम्बिन एव शंभोः स्पष्टाट्टहास विशिष्टतेति व्यज्यते; यथा रघुवंशे-
-
'मद्देहेश्वरस्त्र्यम्बक ए नापरः' इति । अट्टहासः अतिशयो हासः

'अट्टावंतिशयश्चौमौ' इति वैजयन्ती । प्रतिदिनमट्टहास इत्यन्वयः,

दिने दिने भवन्नट्टहास इत्यर्थः । हासस्यापि विकटदशनदीधितिनिच-

यनिचु लेलितत्वात्कुमुद विशदत्वम् । विभातीति शेषः । उत्प्रेक्षालंकारः ॥
 
(
 

 
उत्पश्यामि त्वयि तटगते स्निग्धभिन्नाञ्जनाभे

सद्यःकृत्तद्विरदरदनच्छेद गौरस्य तस्य ।

शोभामद्रेः स्तिमितनयनप्रेक्षणीयां भवित्री-

मंसन्यस्ते सति हलभृतो मेचके वाससीव ॥ ५९॥
 
इ-

 
अथ तदुपसरणे भवतः कामपि मनोहरतां भाविनीमुत्प्रेक्ष इत्या-

ह--
उत्पश्यामि त्वयीति । तटगते अधित्यकाश्रयिणि, शिरःस्था-

नीयस्य शिखरस्याधोगतसानुसंनिषण्ण इत्यर्थः, अंसन्यस्तस्योपमान-

त्वात् । स्निग्धभिन्नाञ्जनाभे स्निग्धा तत्कालदलिताञ्जनशिलाकान्ति-

सदृशी च कान्तिर्यस्य तस्मिन् । सद्यः तत्काल एव कृत्तः छिन्नः

द्विरदरदनच्छेदः करिणो दन्तखण्डः, तद्वत् धवलवर्णस्य ।
मित्रसवः

भिन्नसद्यः
कृत्तशब्दाभ्यां धरणिधूलिधौ सर्यादिविरहात्मभाप्रकर्षः प्रका
-
श्
यते । स्तिमितनयनप्रेक्षणीयां विस्मयौत्सुक्यनिश्चलनेत्रैः प्रेक्षकैर्वैमा-

निकादिभिः प्रेक्षितुं योग्याम् । भवित्रीं भविष्यन्तीम् । अंसन्यस्ते