This page has not been fully proofread.

(२)
 
संधिमभिदर्शयति । अयं किल महाकविर्वाल्मीकिसूक्तिसुधारसमन-
वरतमास्वादयन्सर्वेष्वपि स्वकीयेषु काव्येषु शब्दतोऽर्थतश्च श्रीमद्रा-
मायणस्यैवानुकरोतीति नेदमविदितं मेधाविनाम् । अनुकरणं च
बिम्बग्रहणे नियतमादर्शे विषमं विलोक्यत इति जीमूतस्य उत्तर-
दिशाप्रस्थानं नांशतोऽप्यत्रार्थे दूषणम्, परं तु व्यङ्गथैकजीविते
महाकवेर्वचसि सर्वात्मना भवति भूषणम् । तथा च महाकविरयमत्र
काव्ये शब्दार्थाभ्यां रामायणानुकरणमात्मना सूचयति । तथा हि
 
:
 
प्रथमत एव कान्ताविरहितं यक्षम् 'कश्चित्' इति निर्दिशन्
अनिर्वचनीयमहिमानं कंचन महापुरुषं नायकं क्रोडीकरोतीति युक्तं
प्रतिपत्तुम्'। 'जनकतनयास्नानपुण्योदकेषु' 'रामगिर्याश्रमेषु' 'रघु-
पतिपदैरङ्कितम् ' 'दशमुखभुजोच्छ्वासितप्रस्थसंधेः' 'इत्याख्या
पवनतनयं मैथिलीवोन्मुखी सा' इति पदानि प्रयुञ्जानो महाकवि-
रयं नियतमेवात्र रामायणकथामासूत्रयतीति को वा सचेतनो भावुको
न भावयतु । किं च रामायणोक्तमेव हनुमतो गजपर्वत शृङ्गादि-
सादृश्यं कामरूपत्वं च मेघेऽप्यत्र योजयता, सुग्रीवकथितं वानर-
गमनमार्गमनुस्मारयता, सुवेलस्थितां लङ्कामिव कैलासमधिष्ठिता-
1. 'अस्ति कश्चिद्वागर्थः' इति स्वसहचर्या पृष्टेन समधिंगत-
देवीप्रसादेन महाकविना कालिदासेन स्वपल्युच्चारितं पदत्रयमादौ
घटयित्वा क्रमेण 'अस्त्युत्तरस्याम् –' इति कुमारसंभवः, "कमि-
त्कान्ताविरहगुरुणा— ' इति मेघसंदेशः, 'वागर्थाविव–' इतिं
रघुवंशश्च संग्रथित इति तु चिरादै तिह्मवादिनः ।