This page has not been fully proofread.

"c
 
मेघसंदेशे
 
मिदम् । ऊलोकविक्रमाय शनैरुन्नमने तिर्यग्भागवर्ती । पाद:
भद्भिदण्डः। बलिविमथनाभ्युद्यतस्य वैरोचनिपदप्रच्यावनोयुक्तस्य ।
विष्णोः त्रिभुवनमपजिद्दीपतो नारायणस्य । अत्रोपमानेन फलाव्यभि-
चारः, गन्तुरस्यासन्नफललाभता च द्योत्पते । अत्तोपमालंकारः ॥
गत्वा चोर्ध्व दशमुखभुजोयासितप्रस्थसंधेः
कैलासस्य त्रिदशवनितादर्पणस्पातिथि: स्याः ।
शृङ्गोच्छ्रायैः कुमुद्विशदैर्यो वितत्य स्थितः खं,
 
राशीभूतः प्रतिदिनमिव त्र्यम्बकस्याट्टहासः ॥
 
अथ संनिकृष्ट एवं कैलासगिरिः, तमुपसरेत्याइ– गत्वा चोवं.
मिति । चकारो वाक्यार्थससुच्चये । ऊर्ध्व क्रौञ्चरन्ध्रात्परतः किंचि
बन्तरम् । अथवा, गिरिविवरसंकोचं निस्तीर्य गगनशृङ्गमधिरुह्येति ।
बशमुखभुजोच्छ्रासित प्रस्थसंधेः परममाहेश्वरस्य लङ्कापतेः सुहृद इस
भुवनविजयश्लाधिभिर्भुजैर्हृदोपगूढतया संपीडिताः तटानामन्योन्य
मन्धनप्रदेशा यस्य, प्रियतमभुजच्छासितालिङ्गितानाम्' इतिवत् ।
अनेन भक्तोपरोधमन्तरेण परिभवान्तराप्राप्तिः शंकरगिरेः परिसं•
रूपया द्योत्यते । त्रिदशवनितादर्पणस्य एफटिकमयसर्वाङ्गतया राज-
तत्यादा स्पष्टदृष्ट नतिमाशरीराणामलंकृतानां सुराङ्गनानां दर्पनिष्पा-
दफत्वान्मणिमुकुरभूतस्य । अतिथिरिति । नूतनागतत्वेन गुणशालि
स्वेन च सविशेषसंमानभाजनं भूया इत्यर्थः शृङ्गायैः उच्छ्रितैः
प्रिखरैः । 'नगाद्यारोह उत्सेध उच्छ्रायथोच्छ्रयश्च सः' इत्यमरः ।
 
"