This page has not been fully proofread.

प्रथमाश्वासः ।
 
राशीनंतर
 
ननुरवधारणे । 'प्रश्नावधारणैतिह्यसमीहानुनये ननु' इति वैजयन्ती।
पशुपतेरित्यनेन, सर्वेश्वरत्वेन पूर्णकामस्य कर्तव्यान्तराभावादानन्दता-
ण्डवोयोग इति ध्वन्यते । तत्र हिमगिरौ । समग्रः अविकलः, संपू-
र्ण इति यावत् । अत्र समाधिरलंकारः, कारणान्तरयोगेन कार्यसौक-
हिर्यप्रतिपादनात् । समं वा, योग्यतया योगस्य संभावितत्वात् ॥
माळेयांद्रेरुपतटमतिक्रम्य तांस्तान्विशेषा-
हंसद्वारं भृगुपतियशोवर्त्म यत्क्रौञ्चरन्ध्रम् ।
तेनोदींचीं दिशमनुसरेस्तिर्यगायाम शोभी
.: श्यामः पादो बलिविमथनाभ्युद्यतस्येव विष्णोः ॥
अंथ गिरीन्द्रमतिक्रम्योत्तरां दिशं व्रजतोऽस्य ममनप्रकारमुपदि
पति- प्रालेयेति । प्रालेयाद्रेः हिमगिरेः । उपतटं कटकंसमीपे ।
अतिक्रम्य हृदयंगमतया दर्शनादौ तृष्णाया अविच्छेदेऽपि सुहृत्का-
र्यत्वरापाशनिगलितत्वात् कथमप्युल्लङ्घ्यम् । तांस्तान् नानाप्रकाराम् ।
विशेषान् कुतूहलजनकतया शैलान्तरेभ्यो व्यावर्तकान् धर्मान् । इस
द्वारं इंसानां मानससरोमर्त्यलोकगतागतयोर्मार्गभूतः । भृगुपतियशो-
मर्त्म मगवता परशुरामेण शरवेधतो जानतत्वात् निरतिशयबलवीर्यः
हेतुकस्य तयशसो दिव्यदेशप्रसरणसरणिम् यथा कादम्बर्याम्
परशुरामशरविवरनिर्गता हंसा इव' इति । हर्षचरिते च पर
शुरामपराक्रमस्मृतिकृतो हंसा इव' इति । क्रौञ्चरन्धं क्रौञ्चगिरिमः
ध्यवर्ति दक्षिणोत्तरायामेन भूतं छिद्रम् । तेन मार्गेण । उदीचीम् उत
राम् । तिर्यगायामशोभी तिरश्रीनदैर्घ्यदर्शनीयः । तत्कालविशेषणं
 
-