2023-02-17 12:54:40 by ambuda-bot
This page has not been fully proofread.
मेघसंदेशे
शब्दायन्ते मधुरमनिलैः कीचकाः पूर्यमाणाः
संरक्ताभिस्त्रिपुरविजयो गीयते किंनरीभिः ।
निर्झदी ते मुरज इव चेत्कन्दरेषु ध्वनिः स्या-
त्संगीतार्थो नंनु पशुपतेस्तत्र भावी समग्रः ॥
८६
अथ तत्र साक्षान्निवसतः पार्वतीपतेर्हृदयंगमं सेवाप्रकारमुपदिशति
-शब्दायन्त इति । शब्दायन्ते स्वनन्ति, 'मन्दं शब्दायमाने' इति
बत् । 'शब्दवैरकलद्दाभ्र—' इत्यादिना क्यङ् । मधुरं श्रवणसुभ-
गम् । अनिलैः तानप्रदानोत्सुकैर्वोशिकैरिवेति ध्वन्यते । बहुवचनं वारं
बारमापततां मरुतामविच्छेदात्की चकशब्दस्याप्यनुवन्धं द्योतयति !
कीचकाः वेणुविशेषाः । पूर्यमाणाः षट्पदादिनिष्पादितैरिच्छद्र-
रनुप्रविश्याध्माप्यमानाः । संरक्ताभिः सम्यक् रक्तकण्ठीभिः; यथा-
'रक्ताभिः सुरसुन्दरीभिरभितो गीतात्तु कर्णद्वयी तच श्रोष्यति नाम
किम् ' इति । त्रिपुरविजयः कनकरजतताम्रमयपुरत्रयनिवासिनामसु-
राणामीश्वरकर्तृको नितरां सुकरस्त्रिजगदुपकारको विजयप्रकारो गेयाये
पितः । किन्नरीभिः गुहागृहविहारिणीभिरश्वमुखीभिः स्त्रीभिः । बहुवच
नेन बहुत्वात् कासांचिच्छ्रमेऽन्यासां प्रवृत्तेगीतानुबन्धो द्योत्यते। कन्द-
रेषु निर्हादी गुहासु प्रतिध्वनिप्रसरेण घोषवान् । मुरजः आनद्धवाद्य-
विशेषः । ध्वनिः स्तनितशब्दः । संगीत. थंः गीतनृत्तवाद्यरूपं
बस्तु, संगीतस्य हेतुर्वा । 'नृत्तं गीतं च वायं च त्रयं संगीतमु
च्यते ।' इति हलायुधः । 'अर्थ: स्याद्विषये मोक्षे शब्दवाच्ये प्रयो
जने । व्यवहारे धने शास्त्रे वस्तुहेतुनिवृत्तिषु ॥' इति वैजयन्ती