2023-02-17 12:54:39 by ambuda-bot
This page has not been fully proofread.
प्रथमाश्वासः ।
देवयोनिविशेषैः । अथवा कपिलादिभिः परमयोगिभिः 'सिद्धानां
कपिलो मुनिः' इति भगवद्वचनात् । उपहृतबलिं उपपादितपूजम् ।
भक्तिनम्रः भक्त्या प्रणतः । परीयाः प्रदक्षिणं परिक्रामे: । दृष्टे
दर्शनविषयीकृतमात्रे । करणविगमात् वर्तमानस्य शरीरस्य प्रार-
ब्धकर्मपरिक्षयेण पतनात् । ऊर्ध्वम् अनन्तरम् । 'करणं कारणे
काये' इति वैजयन्ती । उद्धूतपापा: अनेकजन्मवासितमपि झटिति
इठात् विश्लेषितं दुःखबीजं दुरितं येषाम् । अनेन दर्शनात्प्रभृति
यापराहित्यात् यावत्करणनिगममै हिकमुखानामपि भाजनं भवन्तीति
द्योत्यते । कल्पिष्यन्ते योग्या भविष्यन्ति, 'तदङ्गसंसर्गमवाप्य कल्पते
ध्रुवंचिताभस्मरजोऽपि शुद्धये' इतिवत् । 'नमःस्वस्तिस्वाहास्वधालं-
बघडयोगाच्च' इति सूत्रे अलंशब्दस्यार्थग्रहणात् पर्यातिवाचिन: क्लृ.
पिधातोयेंगे प्राप्तय इति चतुर्थी । त्थिरगणपदप्राप्तये इन्द्रादिपदव-
न्कतिपययुगावस्थानलक्षणास्थैर्यरहितशाश्वतपार्षदस्वरूपोपलब्धये; त-
प्रसादान्मुक्तानामपि पशुत्वा ख्यमलावरहात् सर्वशत्वादिशिवलक्षणवि-
शिष्टत्वांच्च शिववन्नित्यत्वमेवेति भावः । 'मुक्तात्मनोऽपि शिवाः किंत्वे-
ते तत्प्रसादतो मुक्ताः । सोऽनादिमुक्त एको विज्ञेयः पञ्चमन्त्रतनुः '
इत्याग मात्तेषामना दिमुक्तत्वस्यैव निषेधात्तदितरगुणानुमतिः। श्रद्दधा-
नाः आस्तिक्याद्रकृतचेतसः । 'तथेति प्रत्ययः श्रद्धा' इति हलायुधः ।
श्रद्धापूर्विकाया एव प्रवृत्तेः सर्वत्र साफल्यमिति भावः; 'इतमश्रद्धवे-
तरत्' इति स्मृतेः । दृष्ट इति, दर्शनमात्रस्येयं परिणतिः; प्रदक्षिण-
नमस्करादिषु कृतासु क्रियासु किमुच्यतामिति भावः । अप्रस्तुतप्र.
शंसालंकारः, कार्ये प्रस्तुते कारणस्याभिधानात् ॥ ५५ ॥
८५