This page has been fully proofread once and needs a second look.

प्रथमाश्वासः ।
 
देवयोनिविशेषैः । अथवा कपिलादिभिः परमयोगिभिः 'सिद्धानां

कपिलो मुनिः' इति भगवद्वचनात् । उपहृतबलिं उपपादितपूजम् ।

भक्तिनम्रः भक्त्या प्रणतः । परीयाः प्रदक्षिणं परिक्रामे: । दृष्टे

दर्शनविषयीकृतमात्रे । करणविगमात् वर्तमानस्य शरीरस्य प्रार-

ब्धकर्मपरिक्षयेण पतनात् । ऊर्ध्वम् अनन्तरम् । 'करणं कारणे

काये' इति वैजयन्ती । उद्धूतपापा: अनेकजन्मवासितमपि झटिति

ठात् विश्लेषितं दुःखबीजं दुरितं येषाम् । अनेन दर्शनात्प्रभृति
या

पा
पराहित्यात् यावत्करणनिविगममै हिकमुखानामपि भाजनं भवन्तीति

द्योत्यते । कल्पिष्यन्ते योग्या भविष्यन्ति, 'तदङ्गसंसर्गमवाप्य कल्पते

ध्रुवं चिताभस्मरजोऽपि शुद्धये' इतिवत् । 'नमःस्वस्तिस्वाहास्वधालं-
बघड

वषड्
योगाच्च' इति सूत्रे अलंशब्दस्यार्थग्रहणात् पर्याप्तिवाचिन: क्लृ.
-
पिधातोयेंर्योगे प्राप्तय इति चतुर्थी । त्स्थिरगणपदप्राप्तये इन्द्रादिपदव-
न्

त्
कतिपययुगावस्थानलक्षणास्थैर्यरहितशाश्वतपार्षदस्वरूपोपलब्धये; त-

त्
प्रसादान्मुक्तानामपि पशुत्वा ख्यमलावलविरहात् सर्वज्ञत्वादिशिवलक्षणवि-

शिष्टत्वांवाच्च शिववन्नित्यत्वमेवेति भावः । 'मुक्तात्मनोऽपि शिवाः किंत्वे-

ते तत्प्रसादतो मुक्ताः । सोऽनादिमुक्त एको विज्ञेयः पञ्चमन्त्रतनुः '
'
इत्याग मात्तेषामना दिमुक्तत्वस्यैव निषेधात्तदितरगुणानुमतिः। श्रद्दधा-

नाः आस्तिक्याद्रर्द्रीकृतचेतसः । 'तथेति प्रत्ययः श्रद्धा' इति हलायुधः ।

श्रद्धापूर्विकाया एव प्रवृत्तेः सर्वत्र साफल्यमिति भावः; 'तमश्रद्धवे-
ये-
तरत्' इति स्मृतेः । दृष्ट इति, दर्शनमात्रस्येयं परिणतिः; प्रदक्षिण-

नमस्करादिषु कृतासु क्रियासु किमुच्यतामिति भावः । अप्रस्तुतप्र.
-
शंसालंकारः, कार्ये प्रस्तुते कारणस्याभिधानात् ॥ ५५ ॥
 
८५