This page has not been fully proofread.

मेघसंदेशे
 
चारे क्षन्तव्येऽपि बहुनां बुद्धिपूर्वमैकमत्येन करणे कः क्षमायाः प्रसङ्घ
इति व्यज्यते । कुर्वीथा इति विधिः, न तु दयया कथंचिदपिं
निवर्तनीयमिति भावः ; ' अवध्ये यो भवेद्दोषो वध्यमाने नृपात्मज
स वध्यत्यावधे दृष्ट इति धर्मविदो विदुः ॥ ' इति स्मरणात् ।
तुमुलकरकादृष्टिपातावकीर्णान् संकुलमेघोपलबर्षपातनविशीर्णान् ।
'मेघोपलास्तु करकाः' इत्यमरः । भयपलायितवियुकदारदारकान्
गिरिगुहादिषु निलीय स्वरक्षणपरा नित्यर्थः । उचितमेवैतदनुचितका-
रिणां दैवप्रातिकूल्यादित्याइ
– केपामिति । ब्रह्मादीनां महात्मना-
मपि पुरहरनिन्दादिषु शिरश्छेदादिदर्शनान कस्यापीति भावः ।
परिभवफलाः स्वगर्वभङ्गमात्र प्रयोजनाः । निष्फलारम्भयत्नाः विश्चि-
ष्टप्रयोजनशून्येषु कार्येषु चापलमात्रेणोद्योगाः । यता इति बहुवचनं
क्रियासमभिद्दारस्यासह्यतां दर्शयति । अत्रार्थान्तरन्यासोऽलंकारः ॥
 
८४
 
तत्र व्यक्तं दृपदि चरणन्यासमर्धेन्दुमौलेः
शश्चत्सिद्धैरुपहृतवलिं भक्तिनम्रः परीयाः ।
यस्मिन्दृष्टे करणविगमादूर्ध्वमुद्धूतपापाः
कल्पिष्यन्ते स्थिरगणपदमाप्तये श्रदधानाः ॥
 
अथ तत्रानायासेनैवोपासनीयं श्रेयः साधनमुपदिशति – तत्रेवि ।
तत्र हिमवति । ब्यक्तं भसितलितत्वादिलिङ्गैः स्पष्टम् । अथवा
दृषदि शिलायां न तु शिलासु व्यक्तं कस्यांचित्पवित्रायां दृषदि
भक्तानुग्रहाय प्रभावादबगादमर्पितं गयादिवत् । चरणन्यासं पादविः
धानमुद्राम् । अर्धेन्दुमैौलेः साक्षाच्छिवस्य । शश्वत् मतत्वेन । सिद्धैः