This page has not been fully proofread.

प्रथमाश्वासः ।
 
८३
 
त्यते । हिशब्दः प्रसिद्धौ । उत्तमानाम् उन्नतहृदयत्वेन । बहुवच-
नेन, यो य उत्तमस्तस्य तस्यायमेव स्वभाव इति विभाष्यते । अत्रार्था-
न्तरन्यासोऽलंकारः ॥ ५३ ॥
 
N
 
ये संरम्भोत्पतनरभसाः स्वाङ्गभङ्गाय तस्मि-
न्मुक्ताध्वानं सपदि शरभा लङ्घयेयुर्भवन्तम् ।
तान्कुर्वीथास्तुमुलकरकादृष्टिपातावकीर्णा-
पां न स्युः परिभवफला निष्फलारम्भयत्नाः ॥
अथ तत्र केचन दुर्जनास्त्वां परिबुभूषन्ति तानकरुणमुपमर्दये-
त्याह – ये संरम्भेति । संरम्भोत्पतनरभसाः शिखरितुङ्गस्य भव
तो लङ्घनौद्योगे प्रथममशक्यतया भग्ने, पुनः सरोपनिर्बन्धं यल्लङ्घना-
र्थमुत्प्लवनम्, तत् संरम्भेगोत्पतनं तस्मिन्, स्वनाशमप्यनवेक्षमाणः
क्रममुल्लङ्घयन् य: सत्वरो व्यापारः, स रभसो येषाम्। 'आवेश एव
विषये प्रतिघातिनि शेषवान् । अनुबन्धी च भूयोऽपि संरम्भत्वं प्रप-
द्यते ॥' इति, 'सर्वात्ययानवेची तु त्वरावान् लङ्कितक्रमः । अशक्य:
सोदुमन्यैश्च व्यापारो रभसः स्मृतः ॥' इति च दिवाकरः । स्वाङ्ग-
भंङ्गाय अशक्यप्रवृत्तौ प्रस्तरपतनेन विशीर्णशरीरतारूपं फलं प्राप्तुम्,
न पुनः फलान्तरायेति भावः । तस्मिन् हिमवति । मुक्ताध्वानं तत्सं-
चरणसरणिपरिहारेण विश्रमार्थ क्वचित्कोणे निषण्णम् । अनेन तेषां
निरपराधबाधकत्वाद्दण्डयत्वमखण्डमेवेति द्योत्यते । सपदि अचिन्ति-
तमेव । शरभाः पादाष्टकविशिष्टा दुष्टमृगाः । 'शरभश्च गजाराति-
रुत्पादश्रष्टगदपि' इति वैजयन्ती । बहुवचनेन एकस्य मोहादप-