This page has been fully proofread once and needs a second look.

प्रथमाश्वासः ।
 
८३
 
त्यते । हिशब्दः प्रसिद्धौ । उत्तमानाम् उन्नतहृदयत्वेन । बहुवच-

नेन, यो य उत्तमस्तस्य तस्यायमेव स्वभाव इति विभाष्व्यते । अत्रार्था-

न्तरन्यासोऽलंकारः ॥ ५३ ॥
 
N
 

 
ये संरम्भोत्पतनरभसाः स्वाङ्गभङ्गाय तस्मि-

न्मुक्ताध्वानं सपदि शरभा लङ्घयेयुर्भवन्तम् ।

तान्कुर्वीथास्तुमुलकरकादृवृष्टिपातावकीर्णा-
पां

न्केषां
न स्युः परिभवफला निष्फलारम्भयत्नाः ॥

 
अथ तत्र केचन दुर्जनास्त्वां परिबुभूषन्ति, तानकरुणमुपमर्दये-

त्याह-- ये संरम्भेति । संरम्भोत्पतनरभसाः शिखरितुङ्गस्य भव
-
तो लङ्घनौनोद्योगे प्रथममशक्यतया भग्ने, पुनः सरोनिर्बन्धं यल्लङ्घना-

र्थमुत्प्लवनम्, तत् संरम्भेगोणोत्पतनं तस्मिन्, स्वनाशमप्यनवेक्षमाणः

क्रममुल्लङ्घयन् य: सत्वरो व्यापारः, स रभसो येषाम्। 'आवेश एव

विषये प्रतिघातिनि शेरोषवान् । अनुबन्धी च भूयोऽपि संरम्भत्वं प्रप-

द्यते ॥' इति, 'सर्वात्ययानवेचीक्षी तु त्वरावान् लङ्किघितक्रमः । अशक्य:

सोदुढुमन्यैश्च व्यापारो रभसः स्मृतः ॥' इति च दिवाकरः । स्वाङ्ग-
भं

ङ्गाय अशक्यप्रवृत्तौ प्रस्तरपतनेन विशीर्णशरीरतारूपं फलं प्राप्तुम्,

न पुनः फलान्तरायेति भावः । तस्मिन् हिमवति । मुक्ताध्वानं तत्सं-

चरणसरणिपरिहारेण विश्रमार्थ क्वचित्कोणे निषण्णम् । अनेन तेषां

निरपराधबाधकत्वाद्दण्डयत्वमखण्डमेवेति द्योत्यते । सपदि अचिन्ति-

तमेव । शरभाः पादाष्टकविशिष्टा दुष्टमृगाः । 'शरभश्च गजाराति-

रुत्पादश्चाष्टपादपि' इति वैजयन्ती । बहुवचनेन एकस्य मोहादप-