This page has not been fully proofread.

मेघसंदेशे
 
एवं तव कृतोपकारं तम् । वायौ सरति मारुते प्रवर्तमान इति, सहाय-
संपदा संभृतमदत्वाद्दुः सहत्वमग्नेः प्रकाश्यते; अन्यथा प्रचल्यावाभावा-
त्ं । सरला: तरुविशेषाः, तत्प्रकाण्डानां परस्परनिष्पेषनिष्पन्नः । बाधेत
चेदिति। दवबाधायाः कादाचित्कत्यात्त्वदुपगमे तथा संभवति चेदि-
स्यर्थः । तस्य बाधा नाम राज्ञ इव तदाश्रयिणां पीडा । उल्काभिः
अलातैः नाशितः चमरीणां वालनिवद्दो येन । उल्केत्यनायासेनाने-
कधा नाशकत्वं द्योत्यते ; चमरीति तु बालानां सौकुमार्यसौन्दर्या-
तिशयः । वाला रोमाणि। भारशब्देन ताभिरतिलोभेन रक्ष्यमाणत्वांदे-
कवालस्यापि अविच्छेदेन सामग्या दुर्ब्रहत्वं ध्वन्यते; यथा माघः -
संकीर्णकीचकवनस्खल्तैिकवालविच्छेदकातरधियश्चलितुं चमर्यः ॥
इति । गिरिराजस्य राजचिह्नभूतचामरक्षपणेन चाशुशुक्षणरत्यपकारि
त्वादवश्यदण्ड्यत्वमनेन विशेषणेन प्रतिपाद्यते। दवाग्निरिति। असंस्कृ-
तांनामकृत्यकरणेष्वद्दो निर्बन्ध इति भावः । एनं दवाग्निम् । अलं शम-
यितुं निःशेषं निर्वापयितुम्, 'अग्नेः शेषमृणात् शेषं शत्रोः शेषं न
शेपयेत्' इति वचनात् । वारिधारासहस्रैः झटित्यसंख्यवारिधारा-
विकिरणैः, आतिपातिके कार्यो मान्द्यस्यायुक्तत्वादिति भावः । न
केवलं प्रत्युपचिकीर्षया, अपि तु आर्तानुकम्पयाप्येतदनुष्ठेयमित्या इ-
आपन्नार्तिप्रशमनफला इति । आपन्नाः स्वयमप्रतिविधेयैर्दुःखहेतु-
भिराक्रान्ताः, तेषां जनानामातेंदुःखस्य प्रकर्येण शमनं दुःखनिवा-
रणेन यत्, तदेव फलं प्रयोजनं यासां ताः । संपदः द्रविणादिवि-
भूतयः । संपद इति बहुवचनेन, यया कयापि विधया वर्तमाना
सर्वापि विभूतिः शरीरादिकमपि परोपकरणमौशीनरादिर्वादति यो-
८२