This page has not been fully proofread.

८१
 
अनेन शुद्धधवलत्वोपपादनेन पटीरपङ्कादिवत् कान्तिहेतुरेवास्य हिमा-
नी न तु सौभाग्यत्रिलोपिनीति, कुमारसंभवे 'अनन्तरत्नप्रभवस्य
यस्य द्दिमं न सौभाग्यविलोपि जातम्' इति कविना प्रतिज्ञातस्व
निर्वाहः कृतः । गौरत्वं च हरनृपसाम्यसाचिव्ये नात्रोपयुज्यते । वक्ष्य-
सि धारयिष्यसि। अध्वश्रमविनयने मार्गखेदस्य निवारके । अध्वश्रम-
विनयनं निमित्तमिति निमित्तसतमी वा । अनेन मृगमदपरिमल्य-
घ्राणेन, तुषारशीकर शिशिरस्य भागीरथीस्पर्शपावनस्य पवनस्य निषे
बणेन चात्राध्वश्रमः क्षणात्काप्यपयास्यतीति ध्वन्यते । शृङ्गे शिखरे,
विषाणे इति च स्फुरति । 'क्रीडाभ्बुयन्त्रे शृङ्गोऽस्त्री पर्वताप्रप्रभु-
त्वयोः । पश्वङ्गे च' इति वैजयन्ती । शुभ्र त्रिनयननृपोत्खातपङ्कोप-
मेयां कैलासगोरेण परमेश्वरवाइनपुंगवेन क्रांडया शृङ्गामोद्धृतनदी-
तटपङ्केनोपमातुं योग्याम् । वृपाणां पकोत्खननं च स्वभावः; यथा
रघुवंशे – 'मदोदग्राः ककुद्मन्तः सरितां कूलमुद्रुजाः' इवि,
'शृङ्गाग्रलग्नाम्बुदवप्रपङ्कः' इति च । हर्षचरिते च 'प्रकटकलङ्कमु-
दयमानं विशङ्कटविषाणोत्कीर्णपङ्कःङ्कशाकरककुदसंकाशम्' इति ।
अत्रोपमालंकारः ॥ ५२ ॥
 
प्रथमाश्वासः ।
 
तं चेद्वायौ सरति सरलस्कन्ध संघट्टजन्मा
बाधेतोल्काक्षपितचमरीवालभारो दवाग्निः ।
अईस्थेनं शमयितुमलं वारिधारासहस्रै-
रापनातिप्रशमनफलाः संपदो तमानाम् ॥
 
अथाध्वश्रमशमनकृतोपकारस्य प्रत्युपकारद्वारमाह-वमिवि । वं
 
M 6