This page has been fully proofread once and needs a second look.

मेघसंदेशे
 
टिद्वयेनैव स्थित्वा पेयमित्यर्थः । तदानीं च छायायाः स्रोतोव्यापि-

त्वसिद्धिः; अन्यथा चेदेकदेशवर्तित्वादुत्प्रेक्षानवकाशः । संसर्पन्त्या

सम्यक् व्याप्नुवत्या । सपदि अवतरणानन्तरमेव । स्रोतसीति । पारि-

प्लवे वारिप्रवाहे छायाया अपि तारल्यसिद्धेर्मेचकचपलजलभरशबल-

त्वबुद्धिसंभवादुत्प्रेक्षायामबावारणीयत्वं द्योत्यते । छायया कान्त्या अना-

तपरूपेण वा । अस्थानोपगतयमुनासंगमा प्रयागस्थान एव तस्य

संभवात् अस्थानभूते कनखलेऽपि प्राप्तः कालिन्द्या संसर्गो यया

सा । अभिरामा सहृदयदृश्यरूपा, परभागलाभादिति भावः । अत्रो-

त्
प्रेक्षालंकारः ॥ ५१ ॥
 

 
आसीनानां सुरभितशिलं नाभिगन्धैर्मृगाणां

तस्या एव प्रभवमचलं प्राप्य गौरं तुषारैः ।

वक्ष्यस्यध्व श्रमविनयने तस्य शृङ्गे निषण्णः

शोभां शुभ्रत्रिनयनवृषोत्खातपङ्कोपमेयाम् ॥५२॥
अय तयै

 
अथ तथै
व द्वारेण तत्प्रभवभूतमा सन्नवर्तिन मचलराजमुपगच्छेत्या-
द—

ह--
आसीनानामिति । आसीनानां सुखनिषण्णानाम् । सुरभित शिलं

अधिवासितपाषाणम् । नाभिगन्धैः नाभीनां कस्तूरिकामत्वात्तदी-

यपरिमलै: । मृगाणाम् योग्यतया कस्तूरीमृगाणाम् । तस्याः गङ्गायाः ।

प्रभवः प्रथमत उपलब्धिस्थलं 'भुवः प्रभवः' इत्यत्रेव । प्रभवमे-

वेति । शैलराजावतीर्णामिति तदास्पदत्वेन प्रस्तुतं गिरिराज मेव । सुर-

भितशिलमिति रमणीयत्वम्, तत्प्रभवमिति पावनत्वम्,
उभाभ्याम-
प्यनन्तरत्नप्रभवत्वोपलक्षणं च । तुषारैगोर्गौरं हिमनिचयेन धवलम् ।
 

 
उभाभ्याम